स्वागतं वां नरश्चेष्ठावुत्तिष्ठेतां गतक्लमौ। किञ्च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम्
येन कार्येण सम्प्राप्तौ युवां तत्साधयामि किम्। व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम्
ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली। वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती। भक्त्यास्तवेन दिव्येन महात्मानावनिन्दितौ
नमो भवाय शर्वाय रुद्राय वरदाय च। पशूनां पतये नित्यमुग्राय च कपर्दिने
महादेवाय भीमाय त्र्यम्बकाय च शान्तये। ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने
कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे। पिनाकिने हविष्याय सत्याय विभवे सदा
विलोहिताय ध्रूम्राय व्याधायानपराजिते। नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे
होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे। अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे। तप्यमानाय सलिले ब्रह्मण्यायाजिताय च
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते। नमोनमस्ते सेव्याय भूतानां प्रभवे सदा
ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च। नमोस्तु वाचस्पतये प्रजानां पतये नमः
अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा। नमोऽस्तु देवदेवाय महाभूतधराय च। नमो विश्वस्य पतये पत्तीनां पतये नमः
नमो विश्वस्य पतये महतां पतये नमः। नमः सहस्रशिरसे सहस्रभुजमृत्यवे।। सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे
नमो हिरण्यवर्णाय हिरण्यकवचाय च। भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः। प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये
सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः। यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते
यथा परमकं कृत्यं सैन्धवस्य वधो मम। तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणम्
स त्वमद्य महाबाहो राजानं परिपालय। यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा
न पश्यामि च तं लोके यस्त्वां युद्धे पराजयेत्। वासुदेवसमं युद्धे स्वयमप्यमरेश्वरः
त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे। शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ
मय्यपेक्षा न कर्तव्या गोप्ताऽयं मम केशवः। राज्ञ एव परा गुप्तिः कार्या सर्वात्मना त्वया
न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः। किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम्
एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा। तथेत्युक्त्वाऽगमत्तत्र यत्र राजा युधिष्ठिरः
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः। द्रोणस्यासीदविरतो गृहे तं न शृणोम्यहम्
नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः। वादित्रनादितानां च सोऽद्य न श्रूयते महान्
यदाप्रभृत्युपप्लुव्याच्छान्तिमिच्छञ्जनार्दनः। आगतः सर्वभूतानामनुकम्पार्थमच्युतः
ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा। वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः। `संशाम्य भ्रातृभिस्तैस्तु क्षत्रियानभिपालय
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम्। हितार्थमभिजल्पन्तं न तवास्ति रणे जयः
प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम्। अनुनेयानि जल्पन्तमनयान्नान्वपद्यत