स्तूयमानं स्तवैर्दिव्यैर्ऋषिभिर्ब्रह्मवादिभिः। गोप्तारं सर्वभूतानामीशानं वरदं शिवम्
वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम्। पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम्
लोकादिं विश्वकर्माणमजमीशानमव्ययम्। मनसः परमं योनिं खं वायुं ज्योतिषां निधिम्
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम्। देवदानवयक्षाणां मानवानां च शासकम्
योगानां च परं धाम दृष्टं ब्रह्मविदां निधिम्। चारचरस्य स्रष्टारं प्रतिहर्तारमेव च
कालकोपं महात्मानं शक्रसूर्यगुणोदयम्। ववन्दतुस्तदा कृष्णौ वाङ्मनोबुद्धिकर्मभिः
यं प्रपद्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः। तमजं कारमात्मानं जग्मतुः शरणं भवम्
अर्जुनश्चापि तं देवं भूयो भूयोऽप्यवन्दत। ज्ञात्वा तं सर्वभूतादिं भूतभव्यभवोद्भवम्
शरण्यं शरणं देवमीशानं परमेश्वरम्। जगाम जगतां नाथमर्जुनः सजनार्दनः
ततस्तावागतौ दृष्ट्वा नरनारायणावुभौ। सुप्रसन्नमनाः शर्वः प्रोवाच प्रहसन्निव
स्वागतं वां नरश्चेष्ठावुत्तिष्ठेतां गतक्लमौ। किञ्च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम्
येन कार्येण सम्प्राप्तौ युवां तत्साधयामि किम्। व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम्
ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली। वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती। भक्त्यास्तवेन दिव्येन महात्मानावनिन्दितौ
नमो भवाय शर्वाय रुद्राय वरदाय च। पशूनां पतये नित्यमुग्राय च कपर्दिने
महादेवाय भीमाय त्र्यम्बकाय च शान्तये। ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने
कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे। पिनाकिने हविष्याय सत्याय विभवे सदा
विलोहिताय ध्रूम्राय व्याधायानपराजिते। नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे
होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे। अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे। तप्यमानाय सलिले ब्रह्मण्यायाजिताय च
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते। नमोनमस्ते सेव्याय भूतानां प्रभवे सदा
ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च। नमोस्तु वाचस्पतये प्रजानां पतये नमः
अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा। नमोऽस्तु देवदेवाय महाभूतधराय च। नमो विश्वस्य पतये पत्तीनां पतये नमः
नमो विश्वस्य पतये महतां पतये नमः। नमः सहस्रशिरसे सहस्रभुजमृत्यवे।। सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे
नमो हिरण्यवर्णाय हिरण्यकवचाय च। भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः। प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये
सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः। यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते
यथा परमकं कृत्यं सैन्धवस्य वधो मम। तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणम्
स त्वमद्य महाबाहो राजानं परिपालय। यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा
न पश्यामि च तं लोके यस्त्वां युद्धे पराजयेत्। वासुदेवसमं युद्धे स्वयमप्यमरेश्वरः
त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे। शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ