मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत। पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः
दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः। हतावशेषास्तत्रेमा हन्त माधव सङ्ख्यया
ताभिः परिवृतः सङ्ख्ये सर्वैश्चैव महारथैः। कथं शक्येत सन्द्रष्टुं दुरात्मा कृष्ण सैन्धवः
प्रतिज्ञापारणं चापि न भविष्यति केशव। प्रतिज्ञायां च हीनायां कथं जीवति मद्विधः
दुःखापायस्य मे वीर विकाङ्क्षा परिवर्तते। द्रुतं च याति सविता तत एतद्ब्रवीम्यहम्
शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः। संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः
इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः। हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे कृती
पार्थ पाशुपतं नाम परमास्त्रं सनातनम्। येन सर्वान्मृधे देत्याञ्जघ्ने देवो महेश्वरः
यदि तद्विदितं तेऽद्य श्वो हन्ताऽसि जयद्रथम्। अथ ज्ञातं प्रपद्यस्य मनसा वृषभध्वजम्
तं देवं मनसा ध्यात्वा जोषमास्स्व धनञ्जय। ततस्तस्य प्रसादात्त्वं भक्त्या प्राप्स्यसि तन्महत्
ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनञ्जयः। भूमावासीन एकाग्रो जगाम मनसा भवम्
ततः प्रणिहितो ब्राह्मे मुहूर्ते शुभलक्षणे। आत्मानमर्जुनोऽपश्यद्गने सहकेशवम्
पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम्। ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम्
वायुवेगगतिः पार्थः खं भेजे सहकेशवः। केशवेन गृहीतः स दक्षिणे विभुना भुजे
प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान्। उदीच्यां दिशि धर्मात्मा सोपश्यच्छ्वेतपर्वतम्
कुबेरस्य विराहे च नलिनीं पद्मभूषिताम्। सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम्
सदा पुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम्। सिंहव्याघ्रसमाकीर्णां नानामृगसमाकुलाम्
पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम्। मन्दरस्य प्रदेशांश्च किन्नरोद्गीतनादितान्
हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान्। तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान्
स्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम्। ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि
स तुङ्गं शतशृङ्गं च शर्यातिवनमेव च। पुण्यमश्वशिरस्थानं स्थानमाथर्वणस्य च
वृषदंशं च शैलेन्द्रं महामन्दरमेव च। अप्सरोभिः समाकीर्णं किन्नरैश्चोपशोभितम्
तस्मिञ्शैले व्रजन्पार्थः सकृष्णः समवैक्षत। शुभैः प्रस्रवणैर्जुष्टां हेमधातुविभूषिताम्
चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम्। समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान्
वियद्द्यां पृथिवीं चैव तथा विष्णुपदं व्रजन्। विस्मितः सह कृष्णेन क्षिप्तो बाण इवाभ्यगात्
ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम्। अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम्
समासाद्य तु तं शैलं शैलाग्रे समवस्थितम्। तपोनित्यं महात्मानमपश्यद्वॄषभध्वजम्
सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा। शूलिनं जटिलं गौरं वल्कलाजिनवाससम्
नयनानां सहस्रैश्च विचित्राङ्गं महौजसम्। पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः
गीतवादित्रसन्नादैर्हास्यलास्यसमन्वितम्। वग्लितास्फोटितोत्क्रुष्टैः पुण्यैर्गन्धैश्च सेवितम्