न शक्यमनृतां कर्तुं प्रतिज्ञां विजयेन हि। `महद्धि साहसं पार्थः कृतवाच्छोकमोहितः
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने। तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः
यदि नोऽस्ति कृतं किञ्चिद्यदि दत्तं हुतं यदि। फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन्
एवं कथयतां तेषां जयमाशंसतां प्रभो। कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत
तस्या रजन्या मध्ये तु प्रतिबुद्धो जनार्दनः। स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना। जयद्रथं वधिष्यामि श्वोभूत इति दारुक
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति। यथा जयद्रथं पार्थो न हन्यादिति संयुगे
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम्। द्रोणश्च सहपुत्रेण सर्वास्त्रविधिपारगः
एको वीरः सहस्राक्षो दैत्यदानवदर्पहा। सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम्
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः। अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम्
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः। कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात्
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक। उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा
अहं विजित्य तान्सर्वान्सहसा सहयद्विपान्। अर्जुनार्थे हनिष्यामि सकर्णान्ससुयोधनान्
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे। धनञ्जयार्थे समरे पराक्रान्तस्य दारुक
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च। साश्वद्विपरथान्याजौ विद्रविष्यामि दारुक
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम्। मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम्
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः। ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः
यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु। इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः
यथा त्वं मे प्रभातायामस्यां निशि रथोत्तमम्। कल्पयित्वा यथाशास्त्रमादाय व्रज संयतः
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान्। आरोप्य वै रथे सूत सर्वोपकरणानि च
स्थानं च कल्पयित्वाऽथ रथोपस्थे ध्वजस्य मे। वैनतेयस्य वीरस्य समरे रथशोभिनः
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसप्रभैः।। विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषय
बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेव च। युक्त्वा वाजिवरांस्तत्र कवची तिष्ठ दारुक
पाञ्चजन्यस्य निर्घोषं पर्जन्यनिनदोपमम्। श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम्
एकाह्नाऽहममर्षं च सर्वदुःखानि चैव ह। भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे। पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम्
यस्ययस्य च बीभत्सुर्वधे यत्नं करिष्यति। आशंसेऽहं रणे तन्तं तत्रतत्र हनिष्यति
जय एव ध्रुवस्तस्य कुत एव पराजयः। यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान्
एवं चैतत्करिष्यामि यथा मामनुभाषसे। सुप्रभातामिमां रात्रिं जयाय विजयस्य हि
मया प्रतिज्ञा महती जयद्रथवधे कृता। श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव