अनुयातश्च पितरं मातृपक्षं च वीर्यवान्। सहस्रशो रिपून्हत्वा हतः शूरो महारथः
आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम्। श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि
यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा। चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम्
यदि च मनुजपन्नगाः पिशाचा रजनिचचाराः पतगाः सुरासुराश्च। रणगतमभियान्ति सिन्धुराजं न स भविता सह तैरपि प्रभाते
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक। विहाय फलकाले मां सुगृद्धां तव दर्शने
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा। यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः
यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम्। चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम्
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि। सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम्। हत्वारीन्निहतानां च सङ्ग्रामे तां गति व्रज
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः। नैवेशिकं चाभिमतं ददतां या गतिः शुभा
ब्राह्मणेभ्यः शरण्येभ्यो निधिं निदधतां च या। या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक
ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः। एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक
राज्ञा सुचरितैर्या च गतिर्भवति शाश्वती। चरमाश्रमिणां पुण्यैः सेवितानां पुरः स्थितैः
दीनानुकम्पिनां या च सततं संविभागिनाम्। पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि। अमोघातिथिनां या च तां गतिं व्रज पुत्रक
कृच्छ्रेषु या धारयतामात्मानं व्यसनेषु च। गतिः शोकाग्निदग्धानां तां गतिं व्रज पुत्रक
मातापित्रोश्च शुश्रूषां कल्पयन्तीह ये सदा। स्वदारनिरतानां च या गतिस्तामवाप्नुहि
ऋतुकाले स्वकां भार्यां गच्छतां या मनीषिणाम्। परस्त्रीभ्यो निवृत्तानां तां गतिं व्रज पुत्रक
साम्ना ये सर्वभूतानि पश्यन्ति गतमत्सराः। नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि
मधुमांसान्निवृत्तानां मदाद्दृम्भात्तथाऽनृतात्। परोपतापादन्यायात्तां गतिं व्रज पुत्रक
हीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः। यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक
एवं विलपतीं दीनां सुभद्रां शोककर्शिताम्। अन्वपद्यत पाञ्चाली वैराटिसहितां तदा
सा प्रकामं रुदित्वा च विलप्य च सुदुःखिता। उन्मत्तवत्तदा राजन्विसंज्ञा पतिता क्षितौ
सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः। सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः
विसंज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम्। भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत्
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम्। गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः
ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने। सर्वे न ते गतिं यान्ति याऽभिमन्योर्यशस्विनः
कुर्याम तद्वयं कर्म कुर्युर्युत्सुहृदश्च नः। कृतवान्यादृगद्यैकस्तव पुत्रो महारथः
एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम्। पार्थस्यैव महाबाहुः पार्श्वमागादरिन्दमः
ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाऽर्जुनम्। विवेशान्तः पुरे राजंस्ते च जग्मुः स्वमालयम्