कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः। अहं च सहपुत्रेण अध्रुवा इति चिन्त्यताम्
पर्यायेण वयं सर्वे कालेन बलिना हताः। परलोकं गमिष्यामः स्वैःस्वैः कर्मभिरन्विताः
तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः। क्षत्रधर्माश्रिताः वीराः क्षत्रियाः प्राप्नुवन्ति तान्
एवमाश्वासितो राजा भारद्वाजेन सैन्धवः। अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे
ततः प्रहर्षः सैन्यानां तस्य चासीद्विशाम्पते। वादित्राणां ध्वनिश्चोग्रः सिंहनादरवैः सह
नेह पश्यामि भवतां तथावीर्यं धनुर्धरम्। योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे
वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः। कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः
महेश्वरोऽपि पार्थेन श्रूयते योधिनः पुरा। पदातिना महावीर्यो गिरौ हिमवति प्रभुः
दानवानां सहस्राणि हिरण्यपुरवासिनाम्। जघानैकरथेनैव देवराजप्रचोदितः
समायुक्तो हि कौन्तेयो बासुदेवेन धीमता। सामरानपि लोकांस्त्रीन्हन्यादिति मतिर्मम
सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना। द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे
स राज्ञा स्वयमाचार्यो भृशमत्रार्थितोऽर्जुन। संविधानं च विहितं रथाश्च किल सज्जिताः
कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः। कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः
शकटः पद्मकश्चार्धो व्यूहो द्रोणेन निर्मितः। पद्मकर्णिकमध्यस्थः सूची पार्श्वे जयद्रथः
स्थास्यते रक्षिते वीरैः सिन्धुराट् स सुदुर्मदः। धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथौरसे
अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः। एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः
तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय। सहिता हि नरव्याघ्र न शक्या जेतुमञ्जसा
भूयस्तु मन्त्रयिष्यामि नीतिमात्महिताय वै। मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये
तव प्रसादाद्भगवन्किंनावाप्तं रणे मम। अविषह्यं हृषीकेश किं जानन्मां विगर्हसे
यथा लक्ष्म स्थिरं चन्द्रे समुद्रे च यथा जलम्। एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन
मावमंस्था ममास्त्राणि मावमंस्थाश्च गाण्डिवम्। मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम्
गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ। त्वं च यन्ता हृषीकेश किन्नु स्यादजितं मया
यथाभियाय सङ्ग्रमं न जितो वै जयामि च। तेन सत्येन सङ्ग्रामे हतं विद्धि जयद्रथम्
त्वं च माधव सर्वं तत्तथा प्रतिविधास्यसि। यथा रिपूणां मिषतां प्रमथिष्यामि सैन्धवम्
ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु सन्नतिः। श्रीर्ध्रुवाऽपि च दक्षेषु ध्रुवो नारायणे जयः
एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना। सन्दिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम्
यथा प्रभातां रजनीं कल्पितः स्याद्रथोत्तमः। तथा कार्यं त्वया कृष्ण प्रतिज्ञा स्याद्यथा ध्रुवा
श्वः शिरः पादमूलं ते सैन्धवस्याहृतं ध्रुवम्। पद्ध्यां प्रमथितासि त्वं विशोका भव मा रुदः
क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम्। वयं च प्राप्नुयामेह ये चान्ये शस्त्रजीविनः
व्यूढोरस्को महाबाहुरनिवर्ती रिपुव्रजात्। गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि