असुरसुरमनुष्याः पक्षिणो वोरगा वा पितृरजनिचरा वा ब्रह्मदेवर्षयो वा। चरमचरमपीदं यत्परं चापि तस्मा-- त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः
यदि विशति रसातलं तदग्र्यं वियदपि देवपुरं दितेः पुरं वा। तदपि शरशतैरहं प्रभाते भृशमभिमन्युरिपोः शिरोऽभिहर्ता
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्। तस्य सर्वमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम्
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः। प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं च फल्गुनः
स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिःसृतध्वनिः। जगत्सपातालवियद्दिगीश्वरं प्रकम्पयामास युगात्यये यथा
ततो वादित्रघोषाश्च प्रादुरासन्सहस्रशः। सिंहनादश्च पाण्डूनां प्रतिज्ञाते महात्मना
प्रानृत्यदिव गाण्डीवं शरास्तूणीगता मुदा। निराक्रामन्निव तदा स्वयमेव मृधैषिणः
भीमसेनः सुसंहृष्टः प्रत्यभाषत भारत। धनञ्जयमभिप्रेक्ष्य हर्षगद्गदया गिरा
प्रतिज्ञोद्भवशब्देन कृष्णशङ्खस्वनेन च। निहतो धार्तराष्ट्रोऽयं सानुबन्धः सुयोधनः
अथ मृदिततमाग्र्यदाममाल्यं तव सुतशोकमयं च रोषजातम्। व्यपनुदति महाप्रभावसेन-- न्नरवर वाक्यमिदं महार्थमिष्टम्
अथ शङ्ख्यैश्च भेरीभिः पणवैः सैनिकास्तथा। ससूतमागधा जिष्णुं स्तुतिभिः समपूजयन्
तदा भीमं बलं सर्वे तेन नादेन मोहितम्। तावकं तन्महाराज विषण्णं समपद्यत
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने। मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च
विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः। अर्जुनस्यात्मनश्चैव याथातथ्यं प्रचक्ष्व मे
सममाचार्यकं तात तव चैवार्जुनस्य च। योगाद्दुःखोषितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः
न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन। अहं हि रक्षिता तात भयात्त्वां नात्र संशयः
न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि। व्यूहयिष्यामि तं व्यूहं यं पार्थो न तरिष्यति
तस्माद्युध्यस्व माभैस्त्वं स्वधर्ममनुपालय। पितृपैतामहं मार्गमनुयाहि महारथ
अधीता विधिवद्वेदा अग्नयः सुहुतास्त्वया। इष्टं च बहुभिर्यज्ञैर्न ते मृत्युर्भयङ्करः
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु। भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान्
कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः। अहं च सहपुत्रेण अध्रुवा इति चिन्त्यताम्
पर्यायेण वयं सर्वे कालेन बलिना हताः। परलोकं गमिष्यामः स्वैःस्वैः कर्मभिरन्विताः
तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः। क्षत्रधर्माश्रिताः वीराः क्षत्रियाः प्राप्नुवन्ति तान्
एवमाश्वासितो राजा भारद्वाजेन सैन्धवः। अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे
ततः प्रहर्षः सैन्यानां तस्य चासीद्विशाम्पते। वादित्राणां ध्वनिश्चोग्रः सिंहनादरवैः सह
नेह पश्यामि भवतां तथावीर्यं धनुर्धरम्। योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे
वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः। कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः
महेश्वरोऽपि पार्थेन श्रूयते योधिनः पुरा। पदातिना महावीर्यो गिरौ हिमवति प्रभुः
दानवानां सहस्राणि हिरण्यपुरवासिनाम्। जघानैकरथेनैव देवराजप्रचोदितः
समायुक्तो हि कौन्तेयो बासुदेवेन धीमता। सामरानपि लोकांस्त्रीन्हन्यादिति मतिर्मम