भुञ्जानानां तु सव्येन उत्सङ्गे चापि खादताम्। पालाशमासनं चैव तिन्दुकैर्दन्तधावनम्
ये चावर्जयतां लोकाः स्वपतां च तथोषसि। शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः
एककूपोदकग्रामे वेदध्वनिविवर्जिते। षण्मासं तत्र वसतां तथा शास्त्रं विनिन्दताम्
दिवामैथुनिनां चापि दिवसेषु च शेरते। अगारदाहिनां चैव गरदानां च ये मताः
अग्न्यातिथ्यविहीनाश्च गोपानेषु च विघ्नदाः। रजस्वलां सेवयन्तः कन्यां शुल्केन दायिनः
या च वै बहुयाजिनां ब्राह्मणानां श्ववृत्तिनाम्। आस्यमैथुनिकानां च ये दिवामैथुने रताः
ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभाद्ददाति न। तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम्
धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः। ये चानुकीर्तितास्तेषां गतिं क्षिप्रमवाप्नुयाम्
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम्। इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत
यद्यस्मिन्न हत्ते पापे सूर्योऽस्तमुपयास्यति। इहैव सम्प्रवेष्टाऽहं ज्वलितं जातवेदसम्
असुरसुरमनुष्याः पक्षिणो वोरगा वा पितृरजनिचरा वा ब्रह्मदेवर्षयो वा। चरमचरमपीदं यत्परं चापि तस्मा-- त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः
यदि विशति रसातलं तदग्र्यं वियदपि देवपुरं दितेः पुरं वा। तदपि शरशतैरहं प्रभाते भृशमभिमन्युरिपोः शिरोऽभिहर्ता
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्। तस्य सर्वमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम्
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः। प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं च फल्गुनः
स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिःसृतध्वनिः। जगत्सपातालवियद्दिगीश्वरं प्रकम्पयामास युगात्यये यथा
ततो वादित्रघोषाश्च प्रादुरासन्सहस्रशः। सिंहनादश्च पाण्डूनां प्रतिज्ञाते महात्मना
प्रानृत्यदिव गाण्डीवं शरास्तूणीगता मुदा। निराक्रामन्निव तदा स्वयमेव मृधैषिणः
भीमसेनः सुसंहृष्टः प्रत्यभाषत भारत। धनञ्जयमभिप्रेक्ष्य हर्षगद्गदया गिरा
प्रतिज्ञोद्भवशब्देन कृष्णशङ्खस्वनेन च। निहतो धार्तराष्ट्रोऽयं सानुबन्धः सुयोधनः
अथ मृदिततमाग्र्यदाममाल्यं तव सुतशोकमयं च रोषजातम्। व्यपनुदति महाप्रभावसेन-- न्नरवर वाक्यमिदं महार्थमिष्टम्
अथ शङ्ख्यैश्च भेरीभिः पणवैः सैनिकास्तथा। ससूतमागधा जिष्णुं स्तुतिभिः समपूजयन्
तदा भीमं बलं सर्वे तेन नादेन मोहितम्। तावकं तन्महाराज विषण्णं समपद्यत
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने। मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च
विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः। अर्जुनस्यात्मनश्चैव याथातथ्यं प्रचक्ष्व मे
सममाचार्यकं तात तव चैवार्जुनस्य च। योगाद्दुःखोषितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः
न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन। अहं हि रक्षिता तात भयात्त्वां नात्र संशयः
न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि। व्यूहयिष्यामि तं व्यूहं यं पार्थो न तरिष्यति
तस्माद्युध्यस्व माभैस्त्वं स्वधर्ममनुपालय। पितृपैतामहं मार्गमनुयाहि महारथ
अधीता विधिवद्वेदा अग्नयः सुहुतास्त्वया। इष्टं च बहुभिर्यज्ञैर्न ते मृत्युर्भयङ्करः
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु। भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान्