विषण्णवदनाः सर्वे परिवार्य धनञ्जयम्। नेत्रैरनिमिषैर्दीनाः प्रत्यवैक्षन्परस्परम्
प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्च्छितः। कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः
पाणिं पाणौ विनिष्पिष्य दन्तान्कटकटाय्य च। `त्रिशिखां भ्रुकुटीं कृत्वा क्रोधसंरक्तलोचनः'। उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत्
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ताऽजयद्रथम्। न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम्। भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम्
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्। पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम्
रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन। अपि द्रोणकृपौ राजञ्छादयिष्यामि ताञ्छरैः
यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः। मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसम्मतान्
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम्। गुरुदारगतानां ये पिशुनानां च ये सदा
साधूनसूयतां ये च ये चापि परिवादिनाम्। ये च निक्षेपहन्तॄणां ये च विश्वासघातिनाम्
भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम्। ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि
पायसं वा यवान्नं वा शाकं कृसरमेव वा। संयावापूपमांसानि ये च लोका वृथाश्नताम्। तानन्हायाधिगच्छेयं न चेद्धन्यां जयद्रथम्
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम्। अवमन्यमानो यान्याति वृद्धान्साधून्गुरूंस्तथा
स्पृशतो ब्राह्मणं गां च पादेनाग्निं च या भवेत्। याऽप्सु श्लेष्म पुरीषं च मूत्रं वा मुञ्चतां गतिः। तां गच्छेयं गतिं कष्टां न चेद्धन्यां जयद्रथम्
नग्नस्य स्नायमानस्य या च वन्ध्याऽतिथेर्गतिः। उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः
आत्मापहारिणां या च या च मिथ्याभिशंसिनाम्। भृत्यैः सन्दृश्यमानानां पुत्रदाराश्रितैस्तथा
असंविभज्य क्षुद्राणां या गतिर्मिष्टमश्नताम्। तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्
संश्रितं चापि यस्त्यक्त्वा साधुं तद्वचने रतम्। न बिभर्ति नृसंसात्मा निन्दते चोपकारिणम्
अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च। अनर्हेभ्यश्च यो दद्याद्वृषलीपतये तथा
मद्यपो भिन्नमर्यादः कृतघ्नो भर्तृनिन्दकः। तेषां गतिमियां क्षिप्रं न चेद्धान्यां जयद्रथम्
भुञ्जानानां तु सव्येन उत्सङ्गे चापि खादताम्। पालाशमासनं चैव तिन्दुकैर्दन्तधावनम्
ये चावर्जयतां लोकाः स्वपतां च तथोषसि। शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः
एककूपोदकग्रामे वेदध्वनिविवर्जिते। षण्मासं तत्र वसतां तथा शास्त्रं विनिन्दताम्
दिवामैथुनिनां चापि दिवसेषु च शेरते। अगारदाहिनां चैव गरदानां च ये मताः
अग्न्यातिथ्यविहीनाश्च गोपानेषु च विघ्नदाः। रजस्वलां सेवयन्तः कन्यां शुल्केन दायिनः
या च वै बहुयाजिनां ब्राह्मणानां श्ववृत्तिनाम्। आस्यमैथुनिकानां च ये दिवामैथुने रताः
ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभाद्ददाति न। तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम्
धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः। ये चानुकीर्तितास्तेषां गतिं क्षिप्रमवाप्नुयाम्
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम्। इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत
यद्यस्मिन्न हत्ते पापे सूर्योऽस्तमुपयास्यति। इहैव सम्प्रवेष्टाऽहं ज्वलितं जातवेदसम्