ध्रुवं हि युद्धे मरणं शूरामामनिवर्तिनाम्। गतः पुण्यकृतां लोकानभिमन्युर्न संशयः
एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ। सङ्ग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति मानद
स च वीरान्रणे हत्वा राजपुत्रान्महाबलान्। वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखं रणे
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः। धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः
इमे ते भ्रातरः सर्वे दीना भरतसत्तम। त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव
एतांश्च वचसा साम्ना समाश्वासय मानद। विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा। ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदम्
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः। अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा
सनागस्यन्दनहयान्सङ्ग्रामे निहतान्मया। क्षिप्रं द्रक्ष्यन्ति ते नूनं मम पुत्रं निहत्य वै
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम्। सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः
यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम। सूनोः पाण्डवपाञ्चालानगोप्स्यं तं महारणे
कथं च वो रथस्यानां शरवर्षाणि मुञ्चताम्। नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः। यत्राभिमन्युः समरे पश्यतां वो निपातितः
आत्मानमेव गर्हेयं यदहं वै सुदुर्बलान्। युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्चयान्
आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः। वाचस्तु वक्तुं संसत्सु मम पुत्रमरक्षताम्
एवमुक्त्वा ततो वाक्यमतिष्ठद्वै वरासिमान्। न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम्
तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः। `महेन्द्रमिव तिष्ठन्तं वज्रोद्यतमहाभुजम्'। पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा
न भाषितुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम्। अन्यत्र वासुदेवाद्वा ज्येष्ठाद्वा पाण्डुनन्दनात्
सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ। बहुमानात्प्रियत्वाच्च तावेनं वक्तमर्हतः
ततस्तं पुत्रशोकेन भृशं पीडितमानसम्। राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत्
विषण्णवदनाः सर्वे परिवार्य धनञ्जयम्। नेत्रैरनिमिषैर्दीनाः प्रत्यवैक्षन्परस्परम्
प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्च्छितः। कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः
पाणिं पाणौ विनिष्पिष्य दन्तान्कटकटाय्य च। `त्रिशिखां भ्रुकुटीं कृत्वा क्रोधसंरक्तलोचनः'। उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत्
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ताऽजयद्रथम्। न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम्। भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम्
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्। पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम्
रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन। अपि द्रोणकृपौ राजञ्छादयिष्यामि ताञ्छरैः
यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः। मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसम्मतान्
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम्। गुरुदारगतानां ये पिशुनानां च ये सदा
साधूनसूयतां ये च ये चापि परिवादिनाम्। ये च निक्षेपहन्तॄणां ये च विश्वासघातिनाम्