कच्चित्स कदनं कृत्वा परेषां कुरुनन्दन। स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभैः
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः। असहायः सहायार्थी मामनुध्यातवान्ध्रुवम्
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम्। इति विप्रलपन्मन्ये नृशंसैर्भुवि पातितः
अथवा मत्प्रसूतः स स्वस्रीयो माधवस्य च। सुभद्रायां च सम्भूतो न चैवं वक्तुमर्हति
वज्रसारमयं नूनं हृदयं सुदृढं मम। अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते
कथं बाले महेष्वासा नृशंसा मर्मभेदिनः। स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान्
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति। उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति
नूनं स पातितः शेते धरण्यां रुधिरोक्षितः। शोभयन्मेदिनीं गात्रैरादित्य इव पातितः
सुभद्रामनुशोचामि या पुत्रमपलायिनम्। रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्षति
सुभद्रा वक्ष्यते किं मामबिमन्युमपश्यती। द्रौपदीं चैव दुःखार्तां किं वा वक्ष्यामि तामहम्
वज्रसारमयं नूनं हृदयं यन्न यास्यति। सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम्
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः। युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन्
अशक्नुवन्तः पार्थस्य बालं हत्वा महाबलम्। किं न लज्जन्त्यधर्मज्ञाः पार्थिवा दृश्यतां बलम्
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे। सिंहवन्नदथ प्रीताः शोककाल उपस्थिते
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः। अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम्
इति तान्परिभाषन्वै वैश्यापुत्रो महामतिः। अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम। अधक्ष्यं तानहं क्रूरांस्तदा सर्वान्महारथान्
पुत्रशोकार्दितं पार्थं ध्यायन्तं साश्रुलोचनम्। निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम्। मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम्
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम्। क्षत्रियाणां विशेषेण येषां नः शस्त्रजीविका
एषा वै युध्यमानानां शूराणामनिवर्तिनाम्। विहिता सर्वशास्त्रज्ञैर्गतिर्मतिमतां वर
ध्रुवं हि युद्धे मरणं शूरामामनिवर्तिनाम्। गतः पुण्यकृतां लोकानभिमन्युर्न संशयः
एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ। सङ्ग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति मानद
स च वीरान्रणे हत्वा राजपुत्रान्महाबलान्। वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखं रणे
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः। धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः
इमे ते भ्रातरः सर्वे दीना भरतसत्तम। त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव
एतांश्च वचसा साम्ना समाश्वासय मानद। विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा। ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदम्
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः। अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा
सनागस्यन्दनहयान्सङ्ग्रामे निहतान्मया। क्षिप्रं द्रक्ष्यन्ति ते नूनं मम पुत्रं निहत्य वै
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम्। सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः