अभिवादनदक्षं तं पितॄणां वचने रतम्। नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे
सुकुमारः सदा वीरो महार्हशयनोचितः। भूमावनाथवच्छेते नूनं नाथवतां वरः
शयानं समुपासन्ति यं पुरा परमस्त्रियः। तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः
यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः। बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वनैः
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम्। नूनमद्य रजोध्वस्तं रणरेणुः करिष्यति
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने। भाग्यहीनस्य कालेन यथा मे नीयसे बलात्
सा च संयमनी नूनं सदा सुकृतिनां गतिः। स्वभाभिर्मोहिता रम्या त्वयाऽत्यर्थं विराजते
नूनं वैवस्वतश्च त्वां वरुणश्च प्रियातिथिम्। शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम्
एवं विलप्य बहुधा भिन्नपोतो वगिग्यथा। दुःखेन महताऽविष्टो युधिष्ठिरमपृच्छत
कथं त्वयि च भीमे च धृष्टद्युम्ने च जीवति। सात्यके शक्रविक्रान्ते सौभद्रो निहतः परैः
कच्चित्स कदनं कृत्वा परेषां कुरुनन्दन। स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभैः
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः। असहायः सहायार्थी मामनुध्यातवान्ध्रुवम्
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम्। इति विप्रलपन्मन्ये नृशंसैर्भुवि पातितः
अथवा मत्प्रसूतः स स्वस्रीयो माधवस्य च। सुभद्रायां च सम्भूतो न चैवं वक्तुमर्हति
वज्रसारमयं नूनं हृदयं सुदृढं मम। अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते
कथं बाले महेष्वासा नृशंसा मर्मभेदिनः। स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान्
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति। उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति
नूनं स पातितः शेते धरण्यां रुधिरोक्षितः। शोभयन्मेदिनीं गात्रैरादित्य इव पातितः
सुभद्रामनुशोचामि या पुत्रमपलायिनम्। रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्षति
सुभद्रा वक्ष्यते किं मामबिमन्युमपश्यती। द्रौपदीं चैव दुःखार्तां किं वा वक्ष्यामि तामहम्
वज्रसारमयं नूनं हृदयं यन्न यास्यति। सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम्
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः। युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन्
अशक्नुवन्तः पार्थस्य बालं हत्वा महाबलम्। किं न लज्जन्त्यधर्मज्ञाः पार्थिवा दृश्यतां बलम्
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे। सिंहवन्नदथ प्रीताः शोककाल उपस्थिते
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः। अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम्
इति तान्परिभाषन्वै वैश्यापुत्रो महामतिः। अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम। अधक्ष्यं तानहं क्रूरांस्तदा सर्वान्महारथान्
पुत्रशोकार्दितं पार्थं ध्यायन्तं साश्रुलोचनम्। निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम्। मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम्
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम्। क्षत्रियाणां विशेषेण येषां नः शस्त्रजीविका
एषा वै युध्यमानानां शूराणामनिवर्तिनाम्। विहिता सर्वशास्त्रज्ञैर्गतिर्मतिमतां वर