सर्वरत्नशतैः पूर्णां पताकाशतमालिनीम्। ग्राम्यारण्यैः पशुगणैः सम्पूर्णां च महीमिमाम्
रामस्य जामदग्न्यस्य प्रतिजग्राह कश्यपः। ततः शतसहस्राणि द्विपेन्द्रान्हेमभूषणान्
निर्दस्युं पृथिवीं कृत्वा शिष्टेष्टजनसङ्कुलाम्। कश्यपाय ददौ रामो हयमेधे महामखे
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः। इष्ट्वा क्रतुशतैर्वीरो ब्राह्मणेभ्यो ह्यमन्यत
सप्तद्वीपां वसुमतीं मारीचोऽगृह्णत द्विजः। रामं प्रोवाच निर्गच्छ वसुधातो ममाज्ञया
स कश्यपस्य वचनात्प्रोत्सार्य सरिताम्पतिम्। इषुपाते युधां श्रेष्ठः कुर्वन्ब्राह्मणशासनम्
अध्यावसद्गिरिश्रेष्ठं महेन्द्रं पर्वतोत्तमम्। एवं गुणशतैर्युक्तो भृगूणां कीर्तिवर्धनः
जामदग्न्यो ह्यतियशा मरिष्यति महाद्युतिः। त्वया चतुर्भद्रतरः पुण्यात्पुण्यतरस्तव
अयज्वानमदक्षिण्यं मा पुत्रमनुतप्यथाः। एते चतुर्भद्रतरास्त्वया भद्रशताधिकाः। मृता नरवरश्रेष्ठ मरिष्यन्ति च सृञ्जय
रूपं चाप्रतिमं तस्य त्रिदशैश्चापि दुर्लभम्। अपश्यतो हि वीरस्य का शान्तिर्हृदयस्य मे
अभिवादनदक्षं तं पितॄणां वचने रतम्। नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे
सुकुमारः सदा वीरो महार्हशयनोचितः। भूमावनाथवच्छेते नूनं नाथवतां वरः
शयानं समुपासन्ति यं पुरा परमस्त्रियः। तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः
यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः। बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वनैः
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम्। नूनमद्य रजोध्वस्तं रणरेणुः करिष्यति
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने। भाग्यहीनस्य कालेन यथा मे नीयसे बलात्
सा च संयमनी नूनं सदा सुकृतिनां गतिः। स्वभाभिर्मोहिता रम्या त्वयाऽत्यर्थं विराजते
नूनं वैवस्वतश्च त्वां वरुणश्च प्रियातिथिम्। शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम्
एवं विलप्य बहुधा भिन्नपोतो वगिग्यथा। दुःखेन महताऽविष्टो युधिष्ठिरमपृच्छत
कथं त्वयि च भीमे च धृष्टद्युम्ने च जीवति। सात्यके शक्रविक्रान्ते सौभद्रो निहतः परैः
कच्चित्स कदनं कृत्वा परेषां कुरुनन्दन। स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभैः
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः। असहायः सहायार्थी मामनुध्यातवान्ध्रुवम्
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम्। इति विप्रलपन्मन्ये नृशंसैर्भुवि पातितः
अथवा मत्प्रसूतः स स्वस्रीयो माधवस्य च। सुभद्रायां च सम्भूतो न चैवं वक्तुमर्हति
वज्रसारमयं नूनं हृदयं सुदृढं मम। अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते
कथं बाले महेष्वासा नृशंसा मर्मभेदिनः। स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान्
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति। उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति
नूनं स पातितः शेते धरण्यां रुधिरोक्षितः। शोभयन्मेदिनीं गात्रैरादित्य इव पातितः
सुभद्रामनुशोचामि या पुत्रमपलायिनम्। रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्षति
सुभद्रा वक्ष्यते किं मामबिमन्युमपश्यती। द्रौपदीं चैव दुःखार्तां किं वा वक्ष्यामि तामहम्