दन्तान्भङ्क्त्वा सहस्रस्य भिन्नकर्णांस्तथाऽकरोत्। ततः सप्तसहस्राणां कुटुधृपमपाययत्
शिष्टान्वध्वा च हत्वा वै तेषां मृर्ध्नि विभिद्य च। गुणावतीमुत्तरेण खाण्डवाद्दक्षिणेन च। गिर्यन्ते शतसाहस्रा हैहयाः समरे हताः
सरथाश्वगजा वीरा निहतास्तत्र शेरते। पितुर्वधामर्षितेन जामदग्न्येन धीमता
निजघ्ने दशसाहस्रान्रामः परशुना तदा। न ह्यमृष्यत ता वाचो यास्तैर्भृशमुदीरिताः
भृगौ रामाभिधावेति यदाक्रन्दन्द्विजोत्तमाः। ततः काश्मीरदरदान्कुन्तिक्षुद्रकमालवान्
अङ्गवङ्गकलिङ्गांश्च विदेहांस्ताम्रलिप्तकान्। रक्षोवाहान्वीतिहोत्रांस्त्रिगर्तान्मार्तिकावतान्
शिबीनन्यांश्च राजन्यान्देशान्देशान्सहस्रशः। निजघान शितैर्बाणैर्जामदग्न्यः प्रतापवान्
कोटीशतसहस्राणि क्षत्रियाणां सहस्रशः। इन्द्रगोपकवर्णस्य बन्धुजीवनिभस्य च
रुधिरस्य परीवाहैः पूरयित्वा सरांसि च। सर्वानष्टादश द्वीपान्वशमानीय भार्गवः
ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः। वेदीमष्टनलोत्सेधां सौवर्णां विधिनिर्मिताम्
सर्वरत्नशतैः पूर्णां पताकाशतमालिनीम्। ग्राम्यारण्यैः पशुगणैः सम्पूर्णां च महीमिमाम्
रामस्य जामदग्न्यस्य प्रतिजग्राह कश्यपः। ततः शतसहस्राणि द्विपेन्द्रान्हेमभूषणान्
निर्दस्युं पृथिवीं कृत्वा शिष्टेष्टजनसङ्कुलाम्। कश्यपाय ददौ रामो हयमेधे महामखे
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः। इष्ट्वा क्रतुशतैर्वीरो ब्राह्मणेभ्यो ह्यमन्यत
सप्तद्वीपां वसुमतीं मारीचोऽगृह्णत द्विजः। रामं प्रोवाच निर्गच्छ वसुधातो ममाज्ञया
स कश्यपस्य वचनात्प्रोत्सार्य सरिताम्पतिम्। इषुपाते युधां श्रेष्ठः कुर्वन्ब्राह्मणशासनम्
अध्यावसद्गिरिश्रेष्ठं महेन्द्रं पर्वतोत्तमम्। एवं गुणशतैर्युक्तो भृगूणां कीर्तिवर्धनः
जामदग्न्यो ह्यतियशा मरिष्यति महाद्युतिः। त्वया चतुर्भद्रतरः पुण्यात्पुण्यतरस्तव
अयज्वानमदक्षिण्यं मा पुत्रमनुतप्यथाः। एते चतुर्भद्रतरास्त्वया भद्रशताधिकाः। मृता नरवरश्रेष्ठ मरिष्यन्ति च सृञ्जय
रूपं चाप्रतिमं तस्य त्रिदशैश्चापि दुर्लभम्। अपश्यतो हि वीरस्य का शान्तिर्हृदयस्य मे
अभिवादनदक्षं तं पितॄणां वचने रतम्। नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे
सुकुमारः सदा वीरो महार्हशयनोचितः। भूमावनाथवच्छेते नूनं नाथवतां वरः
शयानं समुपासन्ति यं पुरा परमस्त्रियः। तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः
यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः। बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वनैः
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम्। नूनमद्य रजोध्वस्तं रणरेणुः करिष्यति
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने। भाग्यहीनस्य कालेन यथा मे नीयसे बलात्
सा च संयमनी नूनं सदा सुकृतिनां गतिः। स्वभाभिर्मोहिता रम्या त्वयाऽत्यर्थं विराजते
नूनं वैवस्वतश्च त्वां वरुणश्च प्रियातिथिम्। शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम्
एवं विलप्य बहुधा भिन्नपोतो वगिग्यथा। दुःखेन महताऽविष्टो युधिष्ठिरमपृच्छत
कथं त्वयि च भीमे च धृष्टद्युम्ने च जीवति। सात्यके शक्रविक्रान्ते सौभद्रो निहतः परैः