तस्मिन्पुरुषशार्दूले निहते भूरितेजसि। भीष्मः शान्तनवो राजा प्रेतकार्याण्यकारयत्
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्। कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम्
विचित्रवीर्यः स तदा भीष्मस्य वचने स्थितः। अन्वशासन्महाराज पितृपैतामहं पदम्
हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरव। पालयामास तद्राज्यं सत्यवत्या मते स्थितः
तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले।' संप्राप्तयौवनं दृष्ट्वा भ्रातरं धीमतां वरः। भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम्
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः। शुश्राव सहिता राजन्वृण्वाना वै स्वयंवरम्
ततः स रथिनां श्रेष्ठो रथेनैकेन शत्रुजित्। जगामानुमते मातुः पुरीं वाराणसीं प्रभुः
तत्र राज्ञः समुदितान्सर्वतः समुपागतान्। ददर्श कन्यास्ताश्वै भीष्मः शान्तनुनन्दनः
तासां कामेन संमत्ताः सहिताः काशिकोसलाः। वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति
कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः। एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम्
सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः। अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया
वृद्धः परमधर्मात्मा वलीपलितधारणः। किकारणमिहायातो निर्लज्जो भरतर्षभः
मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत। ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि
क्षत्रियाणां वचः श्रुत्वा भीष्मश्चुक्रोध भारत
भीष्मस्तदा स्वयं कन्या वरयामास ताः प्रभुः। उवाच च महीपालान्राजञ्जलदनिःस्वनः
रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः। आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः
अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि। प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च। प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते
आर्षं विधिं पुरस्कृत्य दारान्विन्दन्ति चापरे। अष्टमं तमथो वित्त विवाहं कविभिर्वृतम्
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च। प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः। ते यतध्वं परं शक्त्या विजयायेतराय वा
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान्
सर्वाः कन्याः स कौरव्यो रथमारोप्य च स्वकम्। आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः। संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान्
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम्। आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत्
ताराणामिव संपातो बभूव जनमेजय। भूषणानां च सर्वेषां कवचानां च सर्वशः
सवर्मभिर्भूषणैश्च प्रकीर्यद्बिरितस्ततः। सक्रोधामर्षजिह्मभ्रूकषायीकृतलोचनाः
सूतोपक्लृप्तान् रुचिरान्सदश्वैरुपकल्पितान्। रथानास्थाय ते वीराः सर्वप्रहरणान्विताः
प्रयान्तमथ कौरव्यमनुसस्रुरुदायुधाः। ततः समभवद्युद्धं तेषां तस्य च भारत। एकस्य च बहूनां च तुमुलं रोमहर्षणम्
ते त्विषून्दशसाहस्रांस्तस्मिन्युगपदाक्षिपन्। अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तथाऽन्तरा