दुहितृत्वं च मे गच्छ एवमेतन्महाशरम्। नियच्छेयं त्वदर्थाय उद्यतं घोरदर्शनम्
सर्वमेतन्महाराज विधास्यासि परन्तप। वत्सं त्वं पश्य राजन्वै क्षरेयं येन वत्सला
समां तु कुरु सर्वज्ञ मां तु धर्मभृतां वर। यथा विष्यन्दमानं वै क्षीरं सर्वत्र भावये
तत उत्सारयामास शिलाजालानि सर्वशः। पृथुर्वैन्यस्तदा राजा तेन शैला विवर्धिताः
न हि पूर्वनिसर्गे वै विषमे वसुधातले। प्रविभागः पुराणां वा ग्रामाणां वा महीपते
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः। वैन्यात्प्रभृति राजेन्दर सर्वस्यैतस्य सम्भवः
यत्रयत्र च साम्यं तु भूमावासीत्किलानघ। तत्रतत्र प्रजास्तात निवासमभिरोचयन्। कृच्छ्रेण च महाराज इत्येवमनुशुश्रुम
तथेत्युक्त्वा पुनर्वैन्यो गृहीत्वाऽऽजगवं धनुः। शरांश्चाप्रतिमान्घोरांश्चिन्तयित्वाऽब्रवीन्महीम्
एह्येहि वसुधे क्षिप्रं क्षरैभ्यः काङ्क्षितं पयः। मच्छसनातिगां वै त्वां प्रमथिष्याम्यहं शरैः
तथोक्ता साऽत्मनः श्रेयश्चिन्तयित्वाऽब्रवीत्पृथुम्
ततो दास्याम्यहं भद्र सर्वं यस्य यथेप्सितम्। दुहितृत्वे च मां वीर सङ्कल्पयितुमर्हसि
तथेत्युक्त्वा पृथुः सर्वं विधानमकरोद्वशी। ततो भूतनिकायास्तां वसुधां दुदुहुस्तदा
तां वनस्पतयः पूर्वं समुत्तस्थुर्दुधुक्षवः। साऽतिष्ठद्वत्सला वत्सं दोग्धृपात्राणि चेच्छती
वत्सोऽभूत्पुष्पितः सालः प्लक्षो दोग्धाऽभवत्तदा। छिन्नप्ररोहणं दुग्धं पात्रमौदुम्बरं शुभम्
उदयः पर्वतो वत्सो मेरुर्दोग्धा महागिरिः। रत्नान्योषधयो दुग्धं पात्रमस्तमयं तथा
देवानां वत्स इन्द्रोऽभूत्पात्रं दारुमयं तथा'। दोग्धा च सविता देवो दुग्धमूर्जस्करं प्रियम्
असुरा दुदुहुर्मायामयःपात्रे तु तां तदा। दोग्धा द्विमूर्धा तत्रासीद्वत्सश्चासीद्विरोचनः
कृषिं च सस्यं च नरा दुदुहुः पृथिवीतले। स्वायंभुवो मनुर्वत्सस्तेषां दोग्धाऽभवत्पृथुः
अलाबुपात्रे च तथा विषं दुग्धा वसुन्धरा। धृतराष्ट्रोऽभवद्दोग्धा तेषां वत्सस्तु तक्षकः
सप्तर्षिभिर्ब्रह्म दुग्धा तथा चाक्लिष्टकर्मभिः। दोग्धा बृहस्पतिः पात्रं छन्दो वत्सश्च सोमराट्
अन्तर्धानं चामपात्रे दुग्धा पुण्यजनैर्विराट्। दोग्धा वैश्रवणस्तेषां वत्सश्चासीद्वृषध्वजः
पुण्यगन्धान्पद्मपात्रे गन्धर्वाप्सरसोऽदुहन्। वत्सश्चित्ररथस्तेषां दोग्धा विश्वरुचिः प्रभुः
स्वधां रजतपात्रेषु दुदुहुः पितरश्च ताम्। वत्सो वैवस्वतस्तेषां यमो दोग्धान्तकस्तदा
एवं निकायैस्तैर्दुग्धा पयोऽभीष्टं हि सा विराट्। यैर्वर्तयन्ति ते ह्यद्य पात्रैर्वत्सैश्च नित्यशः
यज्ञैश्च विविधैरिष्ट्वा पृथुर्वैन्यः प्रतापवान्। सन्तर्पयित्वा भूतानि सर्वैः कामैर्मनःप्रियैः
हैरण्यानकरोद्राजा ये केचित्पार्थिवा भुवि। तान्ब्राह्मणेभ्यः प्रायच्छदश्वमेधे महामखे
स षष्टिं गोसहस्राणि षष्टिं नागशतानि च। सौवर्णानकरोद्राजा ब्राह्मणेभ्यश्च तान्ददौ
इमां च पृथिवीं सर्वां मणिरत्नविभूषिताम्। सौवर्णीमकरोद्राजा ब्राह्मणेभ्यश्च तां ददौ
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्
सहस्रं मुसलेनाहन्सहस्रमसिनाऽवधीत्। उद्बन्धनात्सहस्रं च सहस्रमुदके कृतम्