तत्सर्वं वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत। प्रत्यक्षं तस्य हव्यानि प्रतिगृह्णन्ति देवताः
कव्यानि पितरः काले सर्वकामान्द्विजोत्तमाः। स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
पुत्रात्पुण्डतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्
अलभन्ती परित्राणं वैन्यमेवाभ्यपद्यत। कृताञ्जलिपुटा राजन्पूज्यं लोकैस्त्रिभिस्तदा
उवाच चैनं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि। कथं धारयिता चासि प्रजा राजन्मया विना
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा। एकं प्राणान्बहून्वापि प्राणिनां नास्ति पातकं
यस्मिंस्तु निहते भद्रे बहवः सुखमेधते। तस्मिन्हते त्वधं नास्ति पातकं नोपभुज्यते
सोऽहं पालनिमित्तं त्वां बधिष्यामि वसुंधरे। यदि चेद्वचनादद्य न करिष्यसि मे प्रियम्
त्वां निहत्य तु बाणेन मच्छासनपराङ्मुखीम्। आत्मानं प्रथयित्वाऽहं प्रजा धारयिता स्वयं
सुखं वचनमास्थाय मम धर्मभृतां वरे। स़ञ्जीवय प्रजा नित्यं शक्ता ह्यसि वसुन्धरे
दुहितृत्वं च मे गच्छ एवमेतन्महाशरम्। नियच्छेयं त्वदर्थाय उद्यतं घोरदर्शनम्
सर्वमेतन्महाराज विधास्यासि परन्तप। वत्सं त्वं पश्य राजन्वै क्षरेयं येन वत्सला
समां तु कुरु सर्वज्ञ मां तु धर्मभृतां वर। यथा विष्यन्दमानं वै क्षीरं सर्वत्र भावये
तत उत्सारयामास शिलाजालानि सर्वशः। पृथुर्वैन्यस्तदा राजा तेन शैला विवर्धिताः
न हि पूर्वनिसर्गे वै विषमे वसुधातले। प्रविभागः पुराणां वा ग्रामाणां वा महीपते
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः। वैन्यात्प्रभृति राजेन्दर सर्वस्यैतस्य सम्भवः
यत्रयत्र च साम्यं तु भूमावासीत्किलानघ। तत्रतत्र प्रजास्तात निवासमभिरोचयन्। कृच्छ्रेण च महाराज इत्येवमनुशुश्रुम
तथेत्युक्त्वा पुनर्वैन्यो गृहीत्वाऽऽजगवं धनुः। शरांश्चाप्रतिमान्घोरांश्चिन्तयित्वाऽब्रवीन्महीम्
एह्येहि वसुधे क्षिप्रं क्षरैभ्यः काङ्क्षितं पयः। मच्छसनातिगां वै त्वां प्रमथिष्याम्यहं शरैः
तथोक्ता साऽत्मनः श्रेयश्चिन्तयित्वाऽब्रवीत्पृथुम्
ततो दास्याम्यहं भद्र सर्वं यस्य यथेप्सितम्। दुहितृत्वे च मां वीर सङ्कल्पयितुमर्हसि
तथेत्युक्त्वा पृथुः सर्वं विधानमकरोद्वशी। ततो भूतनिकायास्तां वसुधां दुदुहुस्तदा
तां वनस्पतयः पूर्वं समुत्तस्थुर्दुधुक्षवः। साऽतिष्ठद्वत्सला वत्सं दोग्धृपात्राणि चेच्छती
वत्सोऽभूत्पुष्पितः सालः प्लक्षो दोग्धाऽभवत्तदा। छिन्नप्ररोहणं दुग्धं पात्रमौदुम्बरं शुभम्
उदयः पर्वतो वत्सो मेरुर्दोग्धा महागिरिः। रत्नान्योषधयो दुग्धं पात्रमस्तमयं तथा
देवानां वत्स इन्द्रोऽभूत्पात्रं दारुमयं तथा'। दोग्धा च सविता देवो दुग्धमूर्जस्करं प्रियम्
असुरा दुदुहुर्मायामयःपात्रे तु तां तदा। दोग्धा द्विमूर्धा तत्रासीद्वत्सश्चासीद्विरोचनः
कृषिं च सस्यं च नरा दुदुहुः पृथिवीतले। स्वायंभुवो मनुर्वत्सस्तेषां दोग्धाऽभवत्पृथुः
अलाबुपात्रे च तथा विषं दुग्धा वसुन्धरा। धृतराष्ट्रोऽभवद्दोग्धा तेषां वत्सस्तु तक्षकः
सप्तर्षिभिर्ब्रह्म दुग्धा तथा चाक्लिष्टकर्मभिः। दोग्धा बृहस्पतिः पात्रं छन्दो वत्सश्च सोमराट्