जिगीषमाणाः सङ्ग्रामे समन्ताद्वैरिणोऽभ्ययुः। अस्त्रयुद्धविदो घोराः सृजन्तश्चाशिवा गिरः
बललाघवशिक्षाभिस्तेषां सोऽस्त्रबलेन च। छत्रायुधध्वजरथांश्छित्त्वा प्रासान्गतव्यथः
त एनं मुक्तसन्नाहाः प्रार्थयञ्जीवितैषिणः। शरण्यमीयुः शरणं तव स्म इति वादिनः
स तु तान्वशगान्कृत्वा जित्वा चेमां वसुन्धराम्। ईजे यज्ञशतैरिष्टैर्यथा शक्रस्तथाऽनघः
बुभुजुः सर्वसम्पन्नमन्नमन्ये जनाः सदा। तस्मिन्यज्ञे तु विप्रेन्द्राः सन्तृप्ताः परमार्चिताः
मोदकान्पूरिकापूपान्स्वादुपूर्णाश्च शष्कुलीः। करम्भान्पृथुमृद्वीका अन्नानि सुकृतानि च
सूपान्मैरेयकापूपान्रागषाडवपानकान्। मृष्टान्नानि सुयुक्तानि मृदूनि सुरभीणि च
घृतं मधु पयस्तोयं दधीनि रसवन्ति च। फलं मूलं सुस्वादु द्विजास्तत्रोपभुञ्जते
मदनीयानि पापानि विदित्वा चात्मनः सुखम्। अपिबन्त यथाकामं पानपा गीतवादितैः
तत्र स्म गाथा गायन्ति क्षीबा हृष्टाः पठन्ति च। नाभागस्तुतिसंयुक्ता ननृतुश्च सहस्रशः
तेषु यज्ञेष्वम्बरीषो दक्षिणामत्यकालयत्। राज्ञां शतसहस्राणि दशप्रयुतयाजिनाम्
हिरण्यकवचान्सर्वाञ्श्वेतच्छत्रप्रकीर्णकान्। हिरण्यस्यन्दनारूढान्सानुयात्रपरिच्छादान्
ईजानो वितते यज्ञे दक्षिणामत्यकालयत्। मूर्धाभिषिक्तांश्च नृपान्राजपुत्रशतानि च
स दण्डकोशनिचयान्ब्राह्मणेभ्यो ह्यमन्यत। नैवं पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे
यदम्बरीषो नृपतिः करोत्यमितदक्षिणः। इत्येवमनुमोदन्ते प्रीता यस्य महर्षयः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्
सौवर्णां पृथिवीं कृत्वा य इमां प्रमिशर्कराम्। विप्रेभ्यः प्राददद्राजा सोऽश्वमेधे महामखे
जाम्बूनदमया यूपाः सर्वे रत्नपरिच्छदाः। गयस्यासन्समृद्धास्तु सर्वभूतमनोहराः
सर्वकामसमृद्धं च प्रादादन्नं गयस्तदा। ब्राह्ममेभ्यः प्रहृष्टेभ्यः सर्वभूतेभ्य एव च
ससमुद्रवनद्वीपनदीनदवनेषु च। नगरेषु च राष्ट्रेषु दिवि व्योम्नि च येऽवसन्
भूतग्रामाश्च विविधाः सन्तृप्ता यज्ञसम्पदा। गयस्य सदृशो यज्ञो नास्त्यन्य इति तेऽब्रुवन्
षट्त्रिंशद्योजनायामा त्रिंशद्योजनमायता। पश्चात्पुरश्चतुर्विंशद्वेदी ह्यासीद्धिरण्मयी
गयस्य यजमानस्य मुक्तावज्रमणिस्तृता। प्रादात्स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च
यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणः। यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः
कुल्याश्च क्षीरवाहिन्यो रसानां चापभवंस्तदा। वस्त्राभरणगन्धानां शारयश्च पृथग्विधाः
यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः। वटश्चाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत्
स चेन्ममार स़ञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्
व्यक्तं वस्वोकसारेयमित्युचुस्तत्र विस्मिताः। साङ्कृते रन्तिदेवस्य यां रात्रिमतिथिर्वसेत्
आलभ्यन्त तदा गावः सहस्राण्येकविंशतिः। तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा। रन्तिदेवस्य यत्किञ्चित्सौवर्णमभवत्तदा