त्यक्त्वा दुःखं सङ्गतः पुण्यकृद्भि-- रेषा मृत्युर्देवदिष्टा प्रजानाम्। प्राप्ते काले संहरन्ती यथाव-- त्स्वयं कृता प्राणहरा प्रजानाम्
पुत्रान्नष्टाच्छोकमाशु त्यजस्व
एतच्छ्रुत्वार्थवद्वाक्यं नारदेन प्रकाशितम्। उवाचाकम्पनो राजा सखायं नारदं तथा
व्यपेतशोकः प्रीतोऽस्मि भगवन्नृषिसत्तम। श्रुत्वेतिहासं त्वत्तस्तु कृतार्थोऽस्म्यभिवादये
तथोक्तो नारदस्तेन राज्ञा देवर्षिसत्तमः। जगाम नन्दनं शीघ्रमशोकवनमात्मनः
पुण्यं यशस्यं स्वर्ग्यं च धन्यमायुष्यमेव च। अस्येतिहासस्य सदा श्रवणं श्रावणं तथा
एतदर्थपदं श्रुत्वा तदा राजा युधिष्ठिर। क्षत्रधर्मं च विज्ञाय शूराणां च परां गतिम्। सम्प्राप्तोऽसौ महावीर्यः स्वर्गलोकं महारथः
अभिमन्युः परान्हत्वा प्रमुखे सर्वधन्विनाम्। युध्यमानो महेष्वासो हतः सोऽभिमुखो रणे
असिना गदया शक्त्या धनुषा च महारथः। विरजाः सोमसूनुः स पुनस्तत्र प्रलीयते
तस्मात्परां धृतिं कृत्वा भ्रातृभिः सह पाण्डव। अप्रमत्तः सुसन्नद्धः शीघ्रं योद्धुमुपाक्रम
अश्वमेधशतैरीजं क्रतुभिर्भूरिदक्षिणैः। यश्च विप्रप्रसादेन सर्वकामानवाप्य च
सम्प्राप्य विधिवद्राज्यं सर्वभूतानुकम्पनः। `सर्वद्वीपानवष्टभ्य प्रजा धर्मेण पालयन्
स निर्गलं मुख्यतममश्वमेधशतं प्रभुः। आजहार सुरेशस्य हविषा मुदमाहरन्। अन्यैश्च विविधैर्यज्ञैरीजे बहुगुणैर्नृपः
क्षुत्पिपासेऽजयद्रामः सर्वरोगांश्च देहिनाम्। सततं गुणसम्पन्नो दीप्यमानः स्वतेजसा
अतिसर्वाणि भूतानि रामो दाशरथिर्बभौ। ऋषीणां देवतानां च मानुषाणां च सर्वशः। पृथिव्यां सह वासोऽभूद्रामे राज्यं प्रशासति
नाहीयत तदा प्रामः प्राणिनां न तदा व्यथा। प्राणापानौ समावास्तां रामे राज्यं प्रशासति
पर्यदीप्यन्त तेजांसि तदाऽनर्थाश्च नाभवन्। दीर्घायुषः प्रजाः सर्वा युवा न म्रियते तदा
वेदैश्चतुर्भिः सुप्रीताः प्राप्नुवन्ति दिवौकसः। हव्यं कव्यं च विविधं निष्पूर्तं हुतमेव च
अदंशमशका देशा नष्टव्यालसरीसृपाः। नाप्यु प्राणभृतां मृत्युर्नाकाले ज्वलनोऽदहत्
अधर्मरुचयो लुब्धा मूर्खा वा नाभवंस्तदा। शिष्टेष्टप्राज्ञकर्माणः सर्वे वर्णास्तदाऽभवन्
स्वधां पूजां च रक्षोभिर्जनस्थाने प्रणाशिताम्। प्रादान्निहत्य रक्षांसि पितृदेवेभ्य ईश्वरः
सहस्रपुत्राः पुरुषा दशवर्षशतायुषः। न च ज्येष्ठाः कनिष्ठेभ्यस्तदा श्राद्धानि कुर्वते
श्यामो युवा लोहिताक्षो मत्तमातङ्गविक्रमः। आजानुबाहुः सुभुजः सिंहस्कन्धो महाबलः
दशवर्षसहस्राणि दशवर्षशतानि च। सर्वभूतमनःकान्तो रामो राज्यमकारयत्
रामो रामो राम इति प्रजानामभवत्कथा। रामभूतं जगदभूद्रामे राज्यं प्रशासति
चतुर्विधाः प्रजा रामः स्वर्गं नीत्वा दिवं गतः। आत्मेच्छया प्रतिष्ठाप्य राजवंशमिहाष्टधा
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्
राजाऽपि विविधैरिष्ट्वा यज्ञैर्विविधदक्षिणैः'। गतः पुण्यकृतां लोकान्व्याप्य स्वयशसा दिशः
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया। पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः। अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्
नाभागमम्बरीषं च मृतं सृञ्जय शुश्रुम। यः सहस्रं सहस्राणां राज्ञां चैकस्त्वयोधयत्