अप्राप्तवति तस्मिंस्तु यौवनं पुरुषर्षभे। स राजा शान्तनुर्धीमान्कालधर्ममुपेयिवान्
स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिन्दनम्। स्थापयामास वै राज्ये सत्यवत्या मते स्थितः
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान्। मनुष्यं न हि मेन स कंचित्सदृशमात्मनः
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा। गन्धर्वराजो बलवांस्तुल्यनामाऽभ्ययात्तदा
त्वं वै सदृशनामासि युद्धं देहि नृपात्मज। नाम वाऽन्यत्प्रगृह्णीष्व यदि युद्धं न दास्यसि
त्वयाहं युद्धमिच्छामि त्वत्सकाशं तु नामतः। आगतोस्मि वृथाऽऽभाष्य न गच्छेन्नाम ते मम
इत्युक्त्वा गर्जमानौ तौ हिरण्वत्यास्तटं गतौ'। तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः। नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः
तस्मिन्विमर्दे तुमुले शस्त्रवर्षसमाकुले। मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम्
स हत्वा तु नरश्रेष्ठं चित्राङ्गदमरिन्दमम्। अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः
तस्मिन्पुरुषशार्दूले निहते भूरितेजसि। भीष्मः शान्तनवो राजा प्रेतकार्याण्यकारयत्
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्। कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम्
विचित्रवीर्यः स तदा भीष्मस्य वचने स्थितः। अन्वशासन्महाराज पितृपैतामहं पदम्
हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरव। पालयामास तद्राज्यं सत्यवत्या मते स्थितः
तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले।' संप्राप्तयौवनं दृष्ट्वा भ्रातरं धीमतां वरः। भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम्
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः। शुश्राव सहिता राजन्वृण्वाना वै स्वयंवरम्
ततः स रथिनां श्रेष्ठो रथेनैकेन शत्रुजित्। जगामानुमते मातुः पुरीं वाराणसीं प्रभुः
तत्र राज्ञः समुदितान्सर्वतः समुपागतान्। ददर्श कन्यास्ताश्वै भीष्मः शान्तनुनन्दनः
तासां कामेन संमत्ताः सहिताः काशिकोसलाः। वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति
कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः। एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम्
सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः। अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया
वृद्धः परमधर्मात्मा वलीपलितधारणः। किकारणमिहायातो निर्लज्जो भरतर्षभः
मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत। ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि
क्षत्रियाणां वचः श्रुत्वा भीष्मश्चुक्रोध भारत
भीष्मस्तदा स्वयं कन्या वरयामास ताः प्रभुः। उवाच च महीपालान्राजञ्जलदनिःस्वनः
रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः। आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः
अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि। प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च। प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते
आर्षं विधिं पुरस्कृत्य दारान्विन्दन्ति चापरे। अष्टमं तमथो वित्त विवाहं कविभिर्वृतम्
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च। प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः