त्वं हि संहारबुद्ध्याऽथ प्रादुर्भूता रुषो मम। तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः
अविशेषेण चैव त्वं प्रजाः संहर भामिनि। मम त्वं हि नियोगेन ततः श्रेयो ह्यवाप्स्यासि
एवमुक्ता तु सा तेन मृत्युः कमललोचना। प्रारुदद्भृशसंविग्ना प्रापतन्नश्रुबिन्दवः
पाणिभ्यां प्रतिजग्राह तान्यश्रूणि पितामहः। सर्वभूतहितार्थाय तां चाप्यनुनयत्तदा
सप्तगङ्गासु सा पुण्या कन्या वेतसकेषु च। तपोविशेषैर्बहुभिः कर्षयद्देहमात्मनः
ततो गत्वा तु सा गङ्गां महामेरुं च केवलम्। तस्थौ चाश्मेव निश्चेष्टा प्राणायामपरायणा
पुनर्हिमवतो मूर्ध्नि यत्र देवाः पुराऽयजन्। तत्राङ्गुष्ठेन सा तस्थौ निखर्वंल परमा शुभा
पुष्करेष्वथ गोकर्णे नैमिषे मलये तथा। अकर्शयत्स्वकं देहं नियमैर्मानसप्रियैः
अनन्यदेवता नित्यं दृढभक्ता पितामहे। तस्थौ पितामहं चैव तोषयामास धर्मतः
ततस्तामब्रवीत्प्रीतो लोकानां प्रभवोऽव्ययः। सौम्येन मनसा राजन्प्रीतः प्रीतमनास्तदा
मृत्यो किमिदमत्यन्तं तपांसि चरसीति ह। ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम्
नाऽहं हन्यां प्रजा देव स्वस्थाश्चाक्रोशतीस्तथा। एतदिच्छामि सर्वेश त्वत्तो वरमहं प्रभो
अधर्मभयभीताऽस्मि ततोऽहं तप आस्थिता। भीतायास्तु महाभाग प्रयच्छाभयमव्यय
आर्ता चानागसी नारी याचामि भव मे गतिः। तामब्रवीत्ततो देवो भूतभव्यभविष्यवित्
अधर्मो नास्ति ते मृत्यो संहरन्त्या इमाः प्रजाः। मया चोक्तं मृषा भद्रे भविता न कथञ्चन
तस्मात्संहर कल्याणि प्रजाः सर्वाश्चतुर्विधाः। धर्मः सनातनश्च त्वां सर्वथा पावयिष्यति
लोकपालो यमश्चैव सहाया व्याधयश्च ते। अहं च विबुधाश्चैव पुनर्दास्याम ते वरम्
यथा त्वमेनसा मुक्ता विरजाः ख्यातिमेष्यसि
पुनरेवाब्रवीद्वाक्यं प्रसाद्य शिरसा तदा। यद्येवमेतत्कर्तव्यं धर्मतो नास्त्यतो भयम्
तवाज्ञा मूर्ध्नि मे न्यस्ता यत्ते वक्ष्यामि तच्छृणु। लोभः क्रोधोऽभ्यसूयेर्ष्या द्रोहो मोहश्च देहिनां
तथा भविष्यते मृत्यो साधु संहर भोः प्रजाः। अधर्मस्ते न भविता नापध्यास्याम्यहं शुभे
यान्यश्रुबिन्दूनि करे ममासं-- स्ते व्याधयः प्राणिनामात्मजाताः। ते मारयिष्यन्ति नरान्गतासू-- न्नाधर्मस्ते भविता मा स्म भैषीः
नाधर्मस्ते भविता प्राणिनां वै त्वं वै धर्मस्त्वं हि धर्मस्य चेशा। धर्म्या भूत्वा धर्मनित्या धरित्री तस्मात्प्राणान्सर्वथेमान्नियच्छ
मिथ्यावृत्तं मारयिष्यत्यधर्मः
तेनात्मानं पावयस्वात्मना त्वं पापेऽऽत्मानं मज्जयिष्यन्त्यसत्यात्। तस्मात्कामं रोषमप्यागतं त्वं सन्त्यज्यान्तः संहरस्वेति जीवान्
सा वै भीमा मृत्युसंज्ञोपदेशा-- च्छापाद्भीता बाढमित्यब्रवीत्तम्। सा च प्राणं प्राणिनामन्तकाले कामक्रोधौ त्यज्य हरत्यसक्ता
मृत्युस्त्वेषां व्याधयस्तत्प्रसूता व्याधी रोगो रुज्यते येन जन्तुः। सर्वेषां च प्राणिनां प्रायणान्ते तस्माच्छोकं माकृथा निष्फलं त्वम्
सर्वे देवाः प्राणिभिः प्रायणान्ते गत्वा वृत्ताः सन्निवृत्तास्तथैव। एवं सर्वे प्राणिनस्तत्र गत्वा वृत्ता देवा मर्त्यवद्राजसिंह
वायुर्भीमो भीमनादो महौजा भेत्ता देहान्प्राणिनां सर्वगोऽसौ। नो वा वृत्तिं कदाचि-- त्प्राप्नोत्युग्रोऽनन्ततेजोविशिष्टः
सर्वे देवा मर्त्यसंज्ञाविशिष्टा-- स्तस्मात्पुत्रं माशुचो राजसिंह। स्वर्गं प्राप्तो मोदते ते तनूजो नित्यं रम्यान्वीरलोकानवाप्य