पुरा कृतयुगे तात आसीद्राजा ह्यकम्पनः। स शत्रुवशमापन्नो मध्ये सङ्ग्राममूर्धनि। `योधयामास बलवान्बद्धश्चासीदकम्पनः
तस्य पुत्रो हरिर्नाम नारायणसमो बले। श्रीमान्कृतास्त्रो मेधावी युधि शक्रोपमो बली
स दृष्ट्वा पितरं युद्धे तदवस्थं महाद्युतिः। अचिन्तयित्वा मरणं शत्रुमध्यं ततोऽविशत्
स शत्रुभिः परिवृतो बहुधा रणमूर्धनि। योधयामास तान्सर्वान्सर्वास्त्रकुशलो बली
वर्षन्बाणसहस्राणि शत्रुष्वमितविक्रमः। पदातिरथनागाश्वान्प्रममाथ महाबलः
स शरैराचितश्चक्रैर्गदाभिर्मुसलैरपि। मृद्गन्रथसहस्राणि पदातीन्वाजिवारणान्
परानीकं विभिद्याजौ मोक्षयित्वा च तं नृपम्। पुनरेवाकरोद्युद्धं शत्रुमध्यगतो बली
ततस्ते रथिनः सर्वे समेत्य पुनराहवे। जघ्नुस्तं परिवार्यैकं तोमरैरिव कुञ्जरम्
स कर्म दुष्करं कृत्वा सङ्ग्रामे शत्रुतापनः। शत्रुभिर्निहतः सङ्ख्ये पृतानायां युधिष्ठिर
द्विषद्भिर्निहतं दृष्ट्वा प्रियं पुत्रमकम्पनः। अमर्षजनितक्रोध आहवात्सहसाऽऽगतः
स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः। शोचन्नहनि रात्रौ च नालभत्सुखमात्मनः
तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम्। आजगामाथ देवर्षिर्नारदोऽस्य समीपतः
स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम्। पूजयित्वा यथान्यायं कथामकथयत्तदा
तस्य सर्वं समाचष्ट यथावृत्तं युधिष्ठिर। शत्रुभिर्विजयं सङ्ख्ये पुत्रस्य च वधं तथा
मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः। शत्रुभिर्बहुभिः सङ्ख्ये पराक्रम्य हतो बली
शृणु मे प्राणिनां चापि मृत्युः प्रभवते किल। क एष मृत्युर्भगवन्किंवीर्यबलपौरुषः। एतदिच्छामि तत्त्वेन श्रोतुं मतिमतां वर
तस्य तद्वचनं श्रुत्वा नारदो वरदः प्रभुः। आख्यानमिदमाचष्ट पुत्रशोकापहं महत्
शृणु राजन्महाबाहो आख्यानं बहुविस्तरम्। यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप
प्रजाः सृष्टा तदा ब्रह्मा आदिसर्गे पितामहः। असंहृतं महातेजा दृष्ट्वा जगदिदं प्रभुः
तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव। चिन्तयन्न ह्यसौ देव संहारं वसुधाधिप
तस्य रोषान्महाराज मुखेभ्योऽग्निरजायत। तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता
ततो दिवं भुवं चैव ज्वालामालासमाकुलम्। चारचरं जगत्सर्वं ददाह भगवान्प्रभुः
ततो हतानि भूतानि चराणि स्थावराणि च। महता क्रोधवेगेन त्रासयन्निव वीर्यवान्
ततो रुद्रो जटी स्याणुर्निशाचरपतिर्हरः। जगाम शरणं देवं ब्रह्माणं परमेष्ठिनम्
तस्मिन्नापतिते स्थाणौ प्रजानां हितकाम्यया। अब्रवीत्परमो देवो ज्वलन्निव महामुनिः
किं कर्म कामं कामार्ह कामाज्जातोऽसि पुत्रक। करिष्यामि प्रियं सर्वं ब्रूहि स्थाणो यदिच्छसि
उपसंहरतस्तस्य तमग्निं रोषजं तथा। प्रादुर्बभूव विश्वेभ्यो गोभ्योनारी महात्मनः
कृष्णरक्ता तथा पिङ्गा रक्तजिह्वास्यलोचना। कुण्डलाभ्यां च राजेन्द्र तप्ताभ्यां तप्तभूषणा
सा निःसृत्य तथा खेभ्यो दक्षिणां दिशमाश्रिता। स्मयमाना च साऽवेक्ष्य देवौ विश्वेश्वरावुभौ
तां तु तत्र तदा देवीं ब्रह्मा लोकपितामहः। उक्तवान्मधुरं वाक्यं सान्त्वयित्वा पुनः पुनः'। मृत्यो इति महीपाल जहि चेमाः प्रजा इति