स विष्फार्य महच्चापं किरन्निषुगणान्बहून। तत्कण्डं पूरयामास यदार्जुनिरदारयत्
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्। धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः
द्रुपदं पञ्चभिस्तीक्ष्णैः सप्तभिश्च शिखण्डिनम्। केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः
युधिष्ठिरं तु सप्तत्या ततः शेषानपानुदत्। इषुजालेन महता तदद्भुतमिवाभवत्
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम्। चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान्
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्। विव्याध दशभिः पार्थं तांश्चैवान्यांस्त्रिभिस्त्रिभिः
तत्तस्य लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिस्त्रिभिः। धनुर्ध्वजं च च्छत्रं च क्षितौ क्षिप्रमपातयत्
सोऽन्यदादाय बलवान्सज्जं कृत्वा च कार्मुकम्। भीमस्यापातयत्केतुं धनुरश्वांश्च मारिष
स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात्। सोत्यकेराप्लुतो यानं गिर्यग्रमिव केसरी
ततस्त्वदीयाः संहृष्टाः साधुसाध्विति वादिनः। सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमद्भुतम्
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा। तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन्
सौभद्रेण हतैः पूर्वं सोत्तरायोधिभिर्द्विपैः। पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः
यतमानास्तु ते वीरा मात्स्यपाञ्चालकेकयाः। पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम्
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः। तत्तमेव वरं प्राप्य सैन्धवः प्रत्यवारयत्
अर्जुनो तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम्। तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान्
एकधा शतधा राजन्दृश्यते स्म सहस्रधा। अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शयन्
रथचर्यास्त्रमायाभिर्मोहयित्वा परन्तपः। बिभेद शतधा राजञ्शरीराणि महीक्षिताम्
प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः। राजन्प्रापुरसुं लोकं शरीराण्यवनिं ययुः
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान्। सिरांसि च शितैर्बाणैस्तेषां चिच्छेद फाल्गुनिः
चूतारामो यथा भग्नः पञ्चवर्षः फलोपगः। राजपुत्रशतं तद्वत्सौभद्रेण निपातितम्
क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान्। एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत्
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान्। दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः
तयोः क्षणमिवापूर्वः सङ्ग्रामः समपद्यत। अथाभवत्ते विमुखः पुत्रः शरशताहतः
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम्। किन्तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। अकम्पनस्य कथितं नारदेन पुरा नृप
स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम्। अप्रसह्यतमं लोके प्राप्तवानिति नः श्रुतम्
तदहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम्। ततस्त्वं मोक्ष्यसे दुःखात्स्नेहबन्धनसंश्रयात्
समस्तपापराशिघ्नं शृणु कीर्तयतो मम। धन्यमाख्यानमायुष्यं शोकघ्नं पुष्टिवर्धनम्
पवित्रमरिसङ्घघ्नं पङ्गलानां च मङ्गलम्। यथैव वेदाध्ययनमुपाख्यानमिदं तथा
श्रवणीयं महाराज प्रातर्नित्यं नृपोत्तमैः। पुत्रानायुष्मतो राज्यमीहमानैः श्रियं तथा