अधिरोह रथं मातर्गच्छावः स्वगृहानिति। एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीं
आगम्य हास्तिनपुरं शान्तनोः संन्यवेदयत्। तस्य तद्दुष्करं कर्म प्रशशंसुर्नाराधिपाः
समेताश्च पृथक्चैव भीष्मोयमिति चाब्रुवन्। तच्छ्रुत्वा दुष्करं कर्म कृतं भीष्मेण शान्तनुः
बभूव दुःखितो राजा चिररात्राय भारत। स तेन कर्मणा सूनोः प्रीतस्तस्मै वरं ददौ
स्वच्छन्दमरणं तुष्टो ददौ तस्मै महात्मने। न ते मृत्युः प्रभविता यावज्जीवितुमिच्छसि
त्वत्तो ह्यनुज्ञां संप्राप्य मृत्युः प्रभविताऽनघ
चेदिराजसुतां ज्ञात्वा दाशराजेन वर्धिताम्। विवाहं कारयामास शास्त्रदृष्टेन कर्मणा
ततो विवाहे निर्वृत्ते स राजा शान्तनुर्नृपः। तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत्
ततः शान्तनवो धीमान्सत्यवत्यामजायत। वीरश्चित्राङ्गदो नाम वीर्यवान्पुरुषेश्वरः
अथापरं महेष्वासं सत्यवत्यां सुतं प्रभुः। विचित्रवीर्यं राजानं जनयामास वीर्यवान्
अप्राप्तवति तस्मिंस्तु यौवनं पुरुषर्षभे। स राजा शान्तनुर्धीमान्कालधर्ममुपेयिवान्
स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिन्दनम्। स्थापयामास वै राज्ये सत्यवत्या मते स्थितः
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान्। मनुष्यं न हि मेन स कंचित्सदृशमात्मनः
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा। गन्धर्वराजो बलवांस्तुल्यनामाऽभ्ययात्तदा
त्वं वै सदृशनामासि युद्धं देहि नृपात्मज। नाम वाऽन्यत्प्रगृह्णीष्व यदि युद्धं न दास्यसि
त्वयाहं युद्धमिच्छामि त्वत्सकाशं तु नामतः। आगतोस्मि वृथाऽऽभाष्य न गच्छेन्नाम ते मम
इत्युक्त्वा गर्जमानौ तौ हिरण्वत्यास्तटं गतौ'। तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः। नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः
तस्मिन्विमर्दे तुमुले शस्त्रवर्षसमाकुले। मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम्
स हत्वा तु नरश्रेष्ठं चित्राङ्गदमरिन्दमम्। अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः
तस्मिन्पुरुषशार्दूले निहते भूरितेजसि। भीष्मः शान्तनवो राजा प्रेतकार्याण्यकारयत्
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्। कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम्
विचित्रवीर्यः स तदा भीष्मस्य वचने स्थितः। अन्वशासन्महाराज पितृपैतामहं पदम्
हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरव। पालयामास तद्राज्यं सत्यवत्या मते स्थितः
तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले।' संप्राप्तयौवनं दृष्ट्वा भ्रातरं धीमतां वरः। भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम्
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः। शुश्राव सहिता राजन्वृण्वाना वै स्वयंवरम्
ततः स रथिनां श्रेष्ठो रथेनैकेन शत्रुजित्। जगामानुमते मातुः पुरीं वाराणसीं प्रभुः
तत्र राज्ञः समुदितान्सर्वतः समुपागतान्। ददर्श कन्यास्ताश्वै भीष्मः शान्तनुनन्दनः
तासां कामेन संमत्ताः सहिताः काशिकोसलाः। वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति
कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः। एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम्