दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः। अयोधयत सौभद्रमभिमन्युश्च तं रणे
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्। चरमाणावयुध्येतां रथशिक्षाविशारदौ
अथ पणवमृदङ्गदुन्दुभीनां क्रकचमहानकभेरिझर्झराणम्। निनदमतिभृशं नराः प्रचक्रु-- र्लवणजलोद्भवसिंहनादमिश्रम्
ततः शिलाशितैस्तीक्ष्णैर्भल्लैरानतपर्वभिः। छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत्
धनुर्मण्डलनिर्मुक्तैः शरैराशीविषोपमैः। सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव
कर्णोऽपि चास्य चिक्षेप बाणान्सन्नतपर्वणः। असम्ब्रान्तश्च तान्सर्वानगृह्णात्फल्गुनात्मजः
ततो मुहूर्तात्कर्णस्य बाणेनैकेन वीर्यवान्। सध्वजं कार्मुकं वीरश्छित्त्वा भूमावपातयत्
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः। सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम्
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः। वादित्राणि च सञ्जघ्नः सौभद्रं चापि तुष्टुवुः
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्। मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत
रथनागाश्वमनुजानर्दयन्निशितैः शरैः। सम्प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम्
सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः। स्वानेवाभिमुखान्ध्नन्तः प्राद्रवञ्जीवितार्थिनः
ते घोरा रौद्रकर्माणो विपाठा बहवः शिताः। निघ्न्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम्
सायुधाः साङ्गुलित्राणाः सगदाः साङ्गदा रणे। दृश्यन्ते बाहवश्चिन्ना हेमाभारणभूषिताः
शराश्चापानि खङ्गाश्च शरीराणि शिरांसि च। सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः
सोपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः। अक्षैर्विमथितैश्चक्रैर्बहुधा पतितैर्युगैः
शक्तिचापासिभिश्चैव पतितैश्च महाध्वजैः। चर्मचापशरैश्चैव व्यवकीर्णैः समन्तततः
निहतैः क्षत्रियैरश्वैर्वारणैश्च विशाम्पते। अगम्यरूपा पृथिवी क्षणेनासीत्सुदारुणा
वध्यतां राजपुत्राणां क्रन्दतामितरेतरम्। प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः
स शब्दो भरतश्चेष्ठ दिशः सर्वा व्यनादयत्।। सौभद्रश्चाद्रवत्सेनां घ्नन्वराश्वरथद्विपान्
कक्षमग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्। मध्ये भारतसैन्यानामार्जुनिः प्रत्यदृश्यत
विचरन्तं दिशः सर्वाः प्रदिशश्चापि भारत। तं तदा नानुपश्यामः सैन्ये च रजसाऽऽवृते
आददानं गजाश्वानां णां चायुंषि भारत। क्षमेन भूयः पश्यामः सूर्यं मध्यंदिने यथा
अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान्। स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः
अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत। `यथा पुरा वह्निसुतः सुरसैन्येषु वीर्यवान्
यन्मां पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्। शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत्
तमूहुर्वाजिनो वश्याः सैन्धवाः साधुवाहिनः। विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपरंहसः
गन्धर्वनगराकारं विधिवत्कल्पितं रथम्। तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान्
श्वेतश्चत्रपताकाभिश्चामरव्यजनेन च। स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम्। वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम्