अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान्। हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम्
घटयन्निव मर्माणि पुत्रस्य तव भारत। अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम्
एष गच्छति सौभद्रः पार्थानां प्रथितो युवा। नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम्
नकुलं सहदेवं च भीमसेनं च पाण्डवम्। बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा
नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम्। इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः। आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं नृपः। दुःशासनं मद्रराजं तांस्तथाऽन्यान्महारथान्
सर्वभूर्धाभिषिक्तानामाचार्यो ब्रह्मवित्तमः। अर्जुनस्य सुतं मूढं नायं हन्तुमिहेच्छति
न ह्यस्य समरे युद्ध्येदन्तकोऽप्याततायिनः। किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति। शिष्याः पुत्राश्च दयितास्तदपत्यं च धर्मिणाम्
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः। आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम्
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः। संरब्धास्ते जिघांसन्तो भारद्वाजस्य पश्यतः
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा। अब्रवीत्कुरुशार्दूल दुर्योधनमिदं वचः
अहमेनं हनिष्यामि महाराज ब्रवीमि ते। मिषतां पाण्डु पुत्राणां पाञ्चालानां च पश्यताम्
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम्। उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ। गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः। एकाह्वा ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम्
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव। शिवेन मां ध्याहि राजन्नेष हन्मि रिपूंस्तव
एवमुक्त्वाऽनदद्राजन्पुत्रो दुःशासनस्तव। सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन्
तमतिक्रुद्धमायान्तं तव पुत्रमरिंदमः। अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समार्पयत्
दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः। अयोधयत सौभद्रमभिमन्युश्च तं रणे
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्। चरमाणावयुध्येतां रथशिक्षाविशारदौ
अथ पणवमृदङ्गदुन्दुभीनां क्रकचमहानकभेरिझर्झराणम्। निनदमतिभृशं नराः प्रचक्रु-- र्लवणजलोद्भवसिंहनादमिश्रम्
ततः शिलाशितैस्तीक्ष्णैर्भल्लैरानतपर्वभिः। छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत्
धनुर्मण्डलनिर्मुक्तैः शरैराशीविषोपमैः। सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव
कर्णोऽपि चास्य चिक्षेप बाणान्सन्नतपर्वणः। असम्ब्रान्तश्च तान्सर्वानगृह्णात्फल्गुनात्मजः
ततो मुहूर्तात्कर्णस्य बाणेनैकेन वीर्यवान्। सध्वजं कार्मुकं वीरश्छित्त्वा भूमावपातयत्
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः। सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम्
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः। वादित्राणि च सञ्जघ्नः सौभद्रं चापि तुष्टुवुः
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्। मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत