सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः। कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः
आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान्। चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः
युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः। उतक्तमौजाश्च दुर्धर्षो विराटश्च महारथः
द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान्। केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः। समभ्यधावन्सहसा भारद्वाजं युयुत्सवः
समीपे वर्तमानांस्तान्भारद्वाजोऽतिवीर्यवान्। असम्भ्रान्तः शरौघेण महता समवारयत्
महौघः सलिलस्येव गिरिमासाद्य दुर्भिदम्। द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः
पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः। न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः
तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम्। यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह
तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः। बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम्
अशक्यं तु तमन्येन द्रोणं मत्त्वा युधिष्ठिरः। अविषह्यं गुर भारं सौभद्रे समवासृजत्
वासुदेवादनवरं फल्गुनाच्चामितौजसम्। अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः
एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु। द्रोणानीकस्य न वयं विद्मो भेदं कथञ्चन
त्वं वाऽर्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा। द्रोणानीकं महाबाहो पञ्चमो नोपपद्यते
अभिमन्यो वरं तात याचे त्वां दातुमर्हसि। पितॄणां मातुलानां च सैन्यानां चैव सर्वशः
धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात्। क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय
द्रोणस्य दृढमत्युग्रमनीकप्रवरं युधि। पितॄणां जयमाकाङ्क्षन्नवगाहेऽविलम्बितम्
उपदिष्टो हि मे पित्रा योगोऽनीकविशातने। नोत्सहे हि विनिर्गन्तुमहं कस्याञ्चिदापदि
भिन्ध्यनीकं युधांश्चेष्ठ द्वारं सञ्जनयस्व नः। वयं त्वाऽनुगमिष्यामो येन त्वं तात यास्यसि
धनञ्जयसमं युद्धे त्वां वयं तात संयुते। प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः
अहं त्वाऽनुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः। पाञ्चलाः केकया मात्स्यास्तथा सर्वे प्रभद्रकाः
सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः। वयं प्रध्वंसयिष्यामो निघ्नामाना वरान्वरान्
अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम्। पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम्
तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः। मातुलस्य च यत्प्रीतिं करिष्यति पितुश्च मे
शिशुनैकेन सङ्ग्रमे काल्यमानानि सङ्घशः। द्रक्ष्यन्ति सर्वभूतानि द्विषत्सैन्यानि वै मया
नाहं पार्थेन जातः स्यां न च जातः सुभद्रया। यदि मे संयुगे कश्चिज्जीवितो नाद्य मुच्यते
यदि चैकरथेनाहं समग्रं क्षत्रमण्डलम्। न करोम्यष्टधा युद्धे न भवाम्यर्जुनात्मजः
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम्। यत्समुत्सहसे भेत्तुं द्रोणानीकं दुरासदम्
रक्षितं पुरुषव्याघ्रैर्महेष्वासैर्महाबलै। साध्यरुद्रमरुत्तुल्यैर्वस्वग्न्यादित्यविक्रमैः
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत्