अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः। कर्णादवरजं बाणैर्जघान निशितैः शरैः
ततः शत्रुंजयं हत्वा पार्थः षङ्भिरजिह्मगैः। जहार सद्यो भल्लेन विपाटस्य शिरो रथात्
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना। प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः
ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत्। वरासिना कर्णपक्षाञ्जधान दश पञ्च च
पुनस्तु रथमास्थाय धनुरादाय चापरम्। विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम्। जघान चन्द्रवर्माणं बृहत्क्षत्रं च नैषधम्
ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम्। आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे
शैनेयोऽप्यन्यदादाय धनुरिन्दुसमद्युतिः। सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत्
भल्लाभ्यां साधु मुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम्। पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः। निम़ज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात्
पत्त्यश्वरथमातङ्गास्त्वदीयाः शतशोऽपरे। कर्णमेवाभ्यधावन्त त्रास्यमानाः प्रहारिणः
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च। नकुलः सहदेवश्च सात्यकिं जुगुपू रणे
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम्। तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः।। पदातिरथनागाश्वा गजाश्वरथपत्तिभिः। रथिनो नागपत्त्यश्वैरथ पत्तीरथ द्विपैः
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह। संयुक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः।। एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम्। महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम्
ततो हता नररथवाजिकुञ्जरै रनेकशो द्विपरथपत्तिवाजिनः। गजैर्गजा रथिभिरुदायुधा रथा। हयैर्हयाः पत्तिगणैश्च पत्तयः
रथैर्द्विपा द्विरदवरैर्महाहया हयैर्नरा वररथिभिश्च वाजिनः। निरस्तजिह्वादशनेक्षणाः क्षितौ क्षयं गताः प्रमथितवर्मभूषणाः
तथा परैर्बहुकरणैर्वरायुधै- र्हता गताः प्रतिभयदर्शनाः क्षितिम्। विपोथिता हयगजपादताडिता भृशाकुला रथमुखनेमिभिः क्षताः
प्रमोदने श्वापदपक्षिरक्षसां जनक्षये वर्तति तत्र दारुणे। महाबलास्ते कुपिताः परस्परं निषूदयन्तः प्रविचेरुरोजसा
ततो बले भृशलुलिते परस्परं निरीक्षमाणे रुधिरौघसम्प्लुते। दिवाकरेऽस्तंगिरिमास्थिते शनै रुभे प्रयाते शिबिराय भारत
तदनीकमनाधृष्टं भारद्वाजेन रक्षितम्। पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः। कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः
आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान्। चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः
युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः। उतक्तमौजाश्च दुर्धर्षो विराटश्च महारथः
द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान्। केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः। समभ्यधावन्सहसा भारद्वाजं युयुत्सवः
समीपे वर्तमानांस्तान्भारद्वाजोऽतिवीर्यवान्। असम्भ्रान्तः शरौघेण महता समवारयत्
महौघः सलिलस्येव गिरिमासाद्य दुर्भिदम्। द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः
पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः। न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः
तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम्। यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह
तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः। बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम्