सशब्दमद्रवच्चान्यः शब्दादन्योऽत्रसद्भृशम्। स्वानन्योऽथ परानन्यो जघान निशितैः शरैः
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः। मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे
तथैव रथिनं नागः क्षरन्गिरिरिवारुजन्। अभ्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम्
शूरान्प्रहरतो दृष्ट्वा कृताश्स्त्रान्रुधिरोक्षितान्। बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान्
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन। सैन्येन रजसा ध्वस्तं निर्मर्यादमवर्तत
ततः सेनापतिः शीघ्रमयं क्राल इति ब्रुवन्। नित्याभित्वरितानेव त्वरयामास पाण्डवान्
कुर्वन्तः शासनं तस्य पाण्डवा बाहुशालिनः। सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत। इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः। विन्दानुविन्दावावन्त्यौ शल्यश्चैतान्न्यवारयन्
ते त्वार्यधर्मसंरब्धा दुर्निवारा दुरासदाः। शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवै सह
ततो द्रोणोऽतिसंक्रुद्धो विसृजञ्शतशः शरान्। चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत्
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षं मारिष। वज्रसंह्रादसङ्काशस्त्रासयन्मानवान्बहून्
एतस्मिन्नन्तरे जिष्णुर्जित्वा संशप्तकान्बहून्। अभ्ययात्तत्र यत्रासौ द्रोणः पाण्डून्प्रमर्दति
ताञ्शरौघान्महावर्ताञ्शोणितोदान्महाहदान्। तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः। दीप्यमानमपश्याम तेजसा वानरध्वजम्
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः। स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत्
प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा। युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः
तेन बाणसहस्रौधैर्गजाश्वरथयोधिनः। ताड्यमानाः क्षितिं जग्मुर्मुक्तकेशाःशरार्दिताः
केचिदार्तस्वनं चक्रुर्विनेशुरपरे पुनः। पार्थबाणहताः केचिन्निपेतुर्विगतासवः
तेषामुत्पतितान्कांश्चित्पतितांश्च पराङ्मुखान्। न जघानार्जुनो योधान्योधव्रतमनुस्मरन्
ते विकीर्णरथाश्चित्राः प्रायशश्च पराङ्मुखः। कुरवः कर्णकर्णेति हाहेति च विचुक्रुशुः
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम्। मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम्
स भारतरथश्रेष्ठः सर्वभारतहर्षणः। प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वारः
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च। `वारुणेन तदस्त्रेण विधूयाथ धनञ्जयः'। शरौघाञ्शरजालेन विदुधाव धनञ्जयः
तथैवाधिरथिस्तस्य बाणाज्ज्वलिततेजसः। अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान्
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः। विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः। तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः
ते निकृत्तायुघाः शूरा निर्विषा भुजगा इव। रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन्
ता भुजाग्रैर्महावेगा निसृष्टा भुजगोपमाः। दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति
ता निकृत्य शरव्रातैस्त्रिभिस्त्रिभिरजिह्मगैः। ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान्