तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः। महारथानतिबलान्वीरान्समरयोधिनः
बाह्यं मृत्युभयं कृत्वा तावकान्पाण्डवा ययुः। सादिनः सादिनोऽब्यघ्नंस्तथैव रथिनो रथान्
असिशक्त्यृष्टिसङ्घातैर्युद्धमासीत्परश्वथैः। प्रकृष्टमसियुद्धं च बभूव कटुकोदयम्
कुञ्जराणां च सम्पाते युद्धमासीत्सुदारुणम्। अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः
नरो बाणविनिर्भिन्नो रथादन्यश्च मारिष। तत्रान्यस्य च सम्पर्दे पतितस्य विवर्मणः
शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः। अपरांश्चापरेऽमृद्रन्वारणाः पतितान्नरान्
विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून्। नरान्त्रैः केचिदपरे विषाणालग्नसंश्रयैः
बभ्रमुः समरे नागा मृद्रन्तः शतशो नरान्। कार्ष्णायसतनुत्राणान्नराश्वरथकुञ्जरान्
पतितान्पोथयाञ्चक्रुर्द्विपाः स्थूलनलानिव। गृध्रपत्राधिवासांसि शयनानि नारधिपाः
हीमन्तः कालसम्पर्कात्सुदुःस्वान्यनुशेरते। हन्ति स्मात्र पिता पुत्रं रथेनाभ्येत्य संयुगे
पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत। रथो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यों निपातितम्
युगार्धं च्छिन्नमादाय प्रदुद्राव तथा हयः। सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम्
गजेनाक्षिप्य बलिना रथः सञ्चूर्णितः क्षितौ। रथिना ताडितो नागो नाराचेनापतत्क्षितौ
सारोहश्चापतद्वाजी गेजेनाभ्याहतो भृशम्। निर्मर्यादं महद्युद्धमवर्तत सुदारुणम्
हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि। प्रहराहर जह्मेनं स्मितश्वेडितगर्जितैः। इत्येवमुच्चैरत्यर्थं श्रूयन्ते विविधा गिरः
नरस्याश्वस्य नाग्स्य समसञ्जत शोणितम्। उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत्
चक्रेण चक्रमासाद्य वीरो वीरस्य संयुगे। अतीतेषुपथे काले जहार गदया सिरः
असीत्केशपरामर्शो मुष्टियुद्धं च दारुणम्। नखैर्दन्तैश्च सूराणामद्वीपे द्वीपमिच्छताम्
तत्राच्छिद्यत शूरस्य सखङ्गो बाहुरुद्यतः। सधुनश्चापरस्यापि सशरः साङ्कुशस्तथा
आक्रोशदन्यमन्योऽत्र तथाऽन्यो विमुखोऽद्रवत्। अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत्
सशब्दमद्रवच्चान्यः शब्दादन्योऽत्रसद्भृशम्। स्वानन्योऽथ परानन्यो जघान निशितैः शरैः
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः। मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे
तथैव रथिनं नागः क्षरन्गिरिरिवारुजन्। अभ्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम्
शूरान्प्रहरतो दृष्ट्वा कृताश्स्त्रान्रुधिरोक्षितान्। बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान्
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन। सैन्येन रजसा ध्वस्तं निर्मर्यादमवर्तत
ततः सेनापतिः शीघ्रमयं क्राल इति ब्रुवन्। नित्याभित्वरितानेव त्वरयामास पाण्डवान्
कुर्वन्तः शासनं तस्य पाण्डवा बाहुशालिनः। सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत। इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः। विन्दानुविन्दावावन्त्यौ शल्यश्चैतान्न्यवारयन्
ते त्वार्यधर्मसंरब्धा दुर्निवारा दुरासदाः। शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवै सह