तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः। कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी। व्यशीर्यत महाराज नौरिवासाद्य पर्वतम्
ततो दशसहस्राणि न्यवर्तन्त धनुष्मताम्। मतिं कृत्वा रणे क्रूरां वीरा जयपराजये
व्यपेतहृदयत्रासा आवव्रुस्तं महारथाः। आर्च्छत्पार्थो गुरुं भारं सर्वभारसहो युधि
यथा नलवनं क्रुद्धः प्रभिन्नः षष्टिहायनः। मृद्गीयात्तद्वदायस्तः पार्थोऽमृद्गाच्चमूं तव
तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः। तेन नागेन सहसा धनञ्जयमुपाद्रवत्
तं रथेन नरव्याघ्रः प्रत्यगृह्णाद्धनञ्जयः। स सन्निपातस्तुमुलो बभूव नरनागयोः
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च। सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ
ततो जीमूतसङ्काशान्नागादिन्द्र इव प्रभुः। अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम्
स चापि शरवर्षं तं शरवर्षेण वासिवः। अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान्
ततः प्राग्ज्योतिषो राजा शरवर्षे निवारिते। संरक्तनयनो रोषात्पार्थं पुनरवाकिरत्
स तथा शरवर्षेण पार्थं समभिहत्य वै। चोदयामास तं नागं वधायाच्युतपार्थयोः
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम्। चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः
सम्प्राप्तमपि नेयेष परावृत्तं महाद्विपम्। सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जयः
स तु नागो द्विपरथान्हयांश्चामृद्य मारिष। प्राहिणोन्मृत्युलोकाय ततः क्रुद्धो धनञ्जयः
स प्लुतः स्यन्दनात्तस्मान्नीलश्चर्मवरासिभृत्। द्रौणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्त्रिवत्
तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम्। भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ
सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः। प्रांशुरुत्पलपत्राभो निहतो न्यपतद्भुवि
ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला। आचार्यपुत्रेण हते नीले ज्वलिततेजसि
अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः। कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष
दक्षिणेन तु सेनायाः कुरुते कदनं बली। संशप्तकावशेषस्य नारायणबलस्य च
प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः। सोऽभ्याहनद्गुरुं षष्ट्या कर्णं च दशभिः शरैः
तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरजिह्मगैः। जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह
आनन्तर्यमभिप्रेप्सुः षड्विंशत्या शमार्पयत्। कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः
षङ्भिर्दुर्योधनो राजा तत एनमथाकिरत्। भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः
द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः। दर्योधनं द्वादशभिर्दौणिमष्टाभिराशुगैः
आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे। तस्मिन्सन्त्यति प्रामान्मृत्युसाधारणीकृते
अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत्। ते ययुर्भीमसेनस्य समीपममितौजसः
युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ। ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः
महेष्वासवरैर्गुप्ता द्रोणानीकं बिभित्सवः। समापेतुर्महावीर्या भीमप्रभृतयो रथाः