स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात्। निष्पतन्सततं सर्वान्परिचिक्षेप पार्थिवान्
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः। तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो द्विपान्
ते गजस्थेन काल्यन्ते भगदत्तेन पार्थिवाः। ऐरावतस्थेन यथा देवराजेन दानवाः
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः। गजवाजिकृतः शब्दः सुमहान्समजायत
भगदत्तेन समरे काल्यमानेषु पाण्डुषु। प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात्
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा। सिक्त्वा व्यत्रासयन्नागस्ते पार्थसहरंस्ततः
ततस्तमभ्ययात्तूर्णं रुचिपर्वा कृतीसुतः। समघ्नञ्छरवर्षेण रथस्योऽन्तकसन्निभः
ततः स रुचिपर्वाणं शरेणानतपर्वणा। सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम्
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुतः। चेकितानो धृष्टकेतुर्ययुत्सुश्चार्दयन्द्विपम्
त एनं शरधाराभिर्धाराभिरिव तोयदाः। सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः। प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम्
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत्। युयुत्सुस्तु रथाद्राजन्नपाक्रामत्त्वरान्वितः
ततः पाण्डवयोधास्ते नागराजं शरैर्द्रुतम्। सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः
पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम्। स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः। बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन्
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः। त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः
चेकितानः चतुःषष्ट्या सोत्तरायुधिकं पुनः। प्रत्यविध्यत्ततः सर्वान्भगदत्तस्त्रिभिस्त्रिभिः
सोऽतियत्नार्पितैर्बाणैराचितो द्विरदो बभौ। संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान्
नियन्तुः शिल्पयत्नाभ्यां प्रेरितोऽरिशरार्दितः। परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम्
गोपाल इव दण्डेन यथा पशुगणान्वने। सङ्कालयति तां सेनां भगदत्तस्तथा मुहुः
क्षिप्रं श्येनाभिप्रन्नानां वायसानामिव स्वनः। बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः
स नागराजः प्रवराङ्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप। भयं तदा रिपुषु समादधद्भृशं वणिग्जनानां क्षुभितो यथाऽर्णवः
ततो ध्वनिर्द्विरदरथाश्वपार्थिवै र्भयाद्रवद्भिर्जनितोऽतिभैरवः। क्षितिं वियद् द्यां विदिशो दिशस्तथा समावृणोत्पार्थिवसंयुगे ततः
स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम्। पुरा सुगुप्तां विबुधैरिवाहवे विरोचनो देववरूतिनीमिव
भृशं ववौ ज्वलनसखो वियद्रजः समावृणोन्मुहुरपि चैव सैनिकान्। तमेकनागं गणशो यथा गजान् समन्ततो द्रुतमथ मेनिरे जनाः
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव। धनञ्जयं भूतगणाः साधुसाध्वित्यपूजयन्
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः। विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह
कर्मैतत्पार्थ शक्रेण यमेन धनदेन च। दुष्करं समरे यत्ते कृतमद्येति मे मतिः
युगपच्चैव सङ्ग्रामे शतशोऽथ सहस्रशः। पतिता एव मे दृष्टाः संशप्तकमहारथाः
संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः। भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत्
यत्तदानामयज्जिष्णुर्भरतानामपापिनाम्। धनुः क्षेमकरं सङ्ख्ये द्विषतामश्रुवर्धनम्