तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः। सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा
प्राग्ज्योतिषपतेर्नागः सन्निवृत्त्यापसृत्य च। पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत्
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः। जघान द्विरदस्थं तं शत्रुं प्रचलितासनम्
व्यवच्छिद्य तु राजानं भगदत्तं युधिष्ठिरः। रथानीकेन महता सर्वतः पर्यवारयत्
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः। पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम्। किरतां शरवर्षाणि स नागः पर्यवर्तत
ततः प्राग्ज्योतिषो राजा परिगृह्य महागजम्। प्रेषयामास सहसा युयुधानरथं प्रति
आपतन्तं च सम्प्रेक्ष्य नागं सात्वतपुङ्गवः। अविध्यत्पञ्चभिर्बाणैः शितैराशीविषोपमैः
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः। अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत्
बृहतः सैन्धवानश्वान्समुत्थाप्यथ सारथिः। तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं प्रति
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात्। निष्पतन्सततं सर्वान्परिचिक्षेप पार्थिवान्
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः। तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो द्विपान्
ते गजस्थेन काल्यन्ते भगदत्तेन पार्थिवाः। ऐरावतस्थेन यथा देवराजेन दानवाः
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः। गजवाजिकृतः शब्दः सुमहान्समजायत
भगदत्तेन समरे काल्यमानेषु पाण्डुषु। प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात्
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा। सिक्त्वा व्यत्रासयन्नागस्ते पार्थसहरंस्ततः
ततस्तमभ्ययात्तूर्णं रुचिपर्वा कृतीसुतः। समघ्नञ्छरवर्षेण रथस्योऽन्तकसन्निभः
ततः स रुचिपर्वाणं शरेणानतपर्वणा। सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम्
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुतः। चेकितानो धृष्टकेतुर्ययुत्सुश्चार्दयन्द्विपम्
त एनं शरधाराभिर्धाराभिरिव तोयदाः। सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः। प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम्
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत्। युयुत्सुस्तु रथाद्राजन्नपाक्रामत्त्वरान्वितः
ततः पाण्डवयोधास्ते नागराजं शरैर्द्रुतम्। सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः
पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम्। स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः। बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन्
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः। त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः
चेकितानः चतुःषष्ट्या सोत्तरायुधिकं पुनः। प्रत्यविध्यत्ततः सर्वान्भगदत्तस्त्रिभिस्त्रिभिः
सोऽतियत्नार्पितैर्बाणैराचितो द्विरदो बभौ। संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान्
नियन्तुः शिल्पयत्नाभ्यां प्रेरितोऽरिशरार्दितः। परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम्
गोपाल इव दण्डेन यथा पशुगणान्वने। सङ्कालयति तां सेनां भगदत्तस्तथा मुहुः
क्षिप्रं श्येनाभिप्रन्नानां वायसानामिव स्वनः। बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः