सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम्। पर्यवारयदायान्तं यशो द्रोणस्य वर्घयन्
स सौमदत्तेस्त्वरितश्चित्रेष्वसनकेतने। पुनः पताकां सूतं चच्छत्रं चापातयद्रथात्
अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा। साश्वसूतध्वजरथं तं चकर्त वरासिना
रथं च स्वं समास्थाय धनुरादाय चापरम्। स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम्
पाण्ड्यमिन्द्रमिवायान्तमसुरान्प्रति दुर्जयम्। समर्थः सायकौघेन वृषसेनो न्यवारयत्
अथाजगाम हैडिम्बो महामायो महाबलः। पितॄणां हितमन्विच्छन्दहन्कौरववाहिनीम्
गदापरिघनिस्त्रिंशपट्टसायोघनोपलैः। कडङ्गरैर्भुशुण्डीभिः प्रासैस्तोमरसायकैः
मुसलैर्मुद्गरैश्चक्रैर्न्भिण्डिपालपरश्वथैः। पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः
आतुदन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन्। सेनां विभीषयन्नायाद्दोणप्रेप्सुर्घटोत्कचः
तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः। राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः। तादृग्यादृक्पुरावृत्तं शम्बरामरराजयोः
एवं द्वन्द्वशतान्यासन्रथवारणवाजिनाम्। पदातीनां च भद्रं ते तव तेषां च सङ्कुले
नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः। द्रोणस्याभावभावे तु प्रसक्तानां परस्परम्
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो। तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च
तेन नागेन सन्त्रस्ता पाण्डवानामनीकिनी। सहसाऽभ्यद्रवद्राजन्यत्र तस्यौ वृकोदरः
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम्। भगदत्तं सपाञ्चाल्यः सर्वतः समवारयत्
तं रथं रथिनां श्रेष्ठाः परिवार्य परन्तपाः। अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः
स विघातं पृषत्कानामङ्कुशेन समाहरन्। क्षणेन पाण्डुपाञ्जालान्व्यधमत्पर्वतेश्वरः
तदद्भुतमपश्याम भगदत्तस्य संयुगे। तथा वृद्धस्य चरितं कुञ्जरेण विशाम्पते
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत्। तिर्यग्यातेन नागेन समदेनाशुगामिना
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः। सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा
प्राग्ज्योतिषपतेर्नागः सन्निवृत्त्यापसृत्य च। पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत्
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः। जघान द्विरदस्थं तं शत्रुं प्रचलितासनम्
व्यवच्छिद्य तु राजानं भगदत्तं युधिष्ठिरः। रथानीकेन महता सर्वतः पर्यवारयत्
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः। पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम्। किरतां शरवर्षाणि स नागः पर्यवर्तत
ततः प्राग्ज्योतिषो राजा परिगृह्य महागजम्। प्रेषयामास सहसा युयुधानरथं प्रति
आपतन्तं च सम्प्रेक्ष्य नागं सात्वतपुङ्गवः। अविध्यत्पञ्चभिर्बाणैः शितैराशीविषोपमैः
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः। अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत्
बृहतः सैन्धवानश्वान्समुत्थाप्यथ सारथिः। तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं प्रति