सुतसोमं तु विक्रान्तमायान्तं तं शरौघिणम्। द्रोणायाभिमुखं वीरं साल्वो बाणैरवारयत्
स तु भीमरथः साल्वमाशुगैरायसैः शितैः। षड्भिः साश्वनियन्तारमनयद्यमसादनम्
श्रुतकीर्तिं समायान्तं मयूरसदृशैर्हयैः। चित्रसेनो महाराज तव पौत्रं न्यवारयत्
तमार्जुनिः शरैश्चक्रे पितृव्यं जर्झरच्छविम्। शरैश्च द्रौपदीपुत्रं चित्रसेनः समावृणोत्
किरन्तं शरजालानि प्रभिन्नमिव कुञ्जरम्। श्रुतकर्माणमायान्तं दौश्शासनिरवारयत्
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ। पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम्
तिष्ठन्तमग्रे तं दृष्ट्वा प्रतिविन्ध्यं महाहवे। द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत्
तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः। सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम्
प्रवपन्निव बीजानि बीजकाले कृषीवलः। द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत्
यस्तु शूरतमो राजन्नुभयोः सेनयोर्मतः। तं पटच्चरहन्तारं लक्ष्मणः समवारयत्
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत। लक्ष्मणे शरजालानि विसृजन्बह्वशोभत
ततोऽभिमन्युः कर्माणि कुर्वन्तं चित्रयोधिनम्। आर्जुनिः कृतिनं शूरं लक्ष्मणं समयोधयत्
स सम्प्रहारस्तुमुलस्तयोरासीन्महात्मनोः। श्रोतॄणामीक्षितॄणां च भृशं प्रीतिविवर्धनः
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम्। पर्यवारयदायान्तं युवानं समरे युवा
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत्। विधूय तद्बाणजालं बभौ तव सुतो बली
अङ्गदोऽभिमुखं वीरमुत्तमौजसमाहवे। द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत्
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः। सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली। द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत्
स दुर्मुखं भ्रुवोर्मध्ये नाराचेनाभ्यताडयत्। तस्य तद्धि बभौ वक्त्रं सनालमिव पङ्कजम्
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान्। द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत्
ते चैनं भृशसन्तप्ताः शरवर्षैरवाकिरन्। स च तांश्छादयामास शरजालैः पुनः पुनः
नैव कर्णो न ते पञ्च ददृशर्बाणसंवृताः। साश्वसूतध्वजरथाः परस्परशराचिताः
पुत्रास्ते दुर्जयश्चैव जयश्च विजयश्च ह। नीलकाश्यजयत्सेनांस्त्रयस्त्रीन्प्रत्यवारयन्
तद्युद्धमभवद्धोरमीक्षितृप्रीतिवर्धनम्। सिंहव्याघ्रतरक्षूणां यथर्क्षमहिषर्षभैः
क्षेमधूर्तिबृहन्तौ तु भ्रातरौ सात्वतं युधि। द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः
तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत्। सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने
राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम्। चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत्
ततोऽम्बष्ठोऽस्थिभेदिन्या निरभिद्यच्छलाकया। स त्यक्त्वा सशरं चापं रथाद्भूमिमुपागमत्
वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः। अक्षुद्रः क्षुद्रकैर्बाणैः क्रुद्धरूपमवारयत्
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ। ते युद्धासक्तमनसो नान्यं बुबुधिरे क्रियाम्