यथाऽसीच्च निवृत्तेषु पाण्डवेयेषु सञ्जय। मम सैन्यावशेषस्य सन्निपातः सुदारुणः
कथं च वो मनस्तात निवृत्तेष्वभवत्तदा। मामकानां च ये शूराः के कांस्तत्र न्यवारयन्
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्। मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वाऽनदद्भृशम्
तस्य नानदतः केतुमुच्चकर्त च कार्मुकम्। क्षुराभ्यां पाण्डवो ज्येष्ठस्तत उच्चुक्रुशुर्जनाः
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः। आद्रवन्तं सहानीकः सहानीकं न्यवारयत्
तद्युद्धमभवद्धोरं वृद्धयोः सहसेनयोः। यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्। सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम्
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम्। मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम्
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः। अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत्
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः। चक्रे विबाहुशिरसं भूतकर्माणमाहवे
सुतसोमं तु विक्रान्तमायान्तं तं शरौघिणम्। द्रोणायाभिमुखं वीरं साल्वो बाणैरवारयत्
स तु भीमरथः साल्वमाशुगैरायसैः शितैः। षड्भिः साश्वनियन्तारमनयद्यमसादनम्
श्रुतकीर्तिं समायान्तं मयूरसदृशैर्हयैः। चित्रसेनो महाराज तव पौत्रं न्यवारयत्
तमार्जुनिः शरैश्चक्रे पितृव्यं जर्झरच्छविम्। शरैश्च द्रौपदीपुत्रं चित्रसेनः समावृणोत्
किरन्तं शरजालानि प्रभिन्नमिव कुञ्जरम्। श्रुतकर्माणमायान्तं दौश्शासनिरवारयत्
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ। पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम्
तिष्ठन्तमग्रे तं दृष्ट्वा प्रतिविन्ध्यं महाहवे। द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत्
तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः। सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम्
प्रवपन्निव बीजानि बीजकाले कृषीवलः। द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत्
यस्तु शूरतमो राजन्नुभयोः सेनयोर्मतः। तं पटच्चरहन्तारं लक्ष्मणः समवारयत्
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत। लक्ष्मणे शरजालानि विसृजन्बह्वशोभत
ततोऽभिमन्युः कर्माणि कुर्वन्तं चित्रयोधिनम्। आर्जुनिः कृतिनं शूरं लक्ष्मणं समयोधयत्
स सम्प्रहारस्तुमुलस्तयोरासीन्महात्मनोः। श्रोतॄणामीक्षितॄणां च भृशं प्रीतिविवर्धनः
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम्। पर्यवारयदायान्तं युवानं समरे युवा
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत्। विधूय तद्बाणजालं बभौ तव सुतो बली
अङ्गदोऽभिमुखं वीरमुत्तमौजसमाहवे। द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत्
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः। सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली। द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत्
स दुर्मुखं भ्रुवोर्मध्ये नाराचेनाभ्यताडयत्। तस्य तद्धि बभौ वक्त्रं सनालमिव पङ्कजम्
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान्। द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत्