तावकाश्च महाराज जयं लब्ध्वा महाहवे। पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः
ते दानवा इवेन्द्रेण वध्यमाना महात्मना। पाञ्चालाः केकया मात्स्याः समकम्पन्त भारत
समनुप्राप्तकृच्छ्रोऽहं मोहं परममागतः। भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे
यन्मां क्षत्ताऽब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम्। दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह
नृशंसं तु परं तात त्यक्त्वा दुर्योधनं यदि। पुत्रशेषं चिकीर्षेयं कृत्स्नं न मरणं व्रजेत्
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः। सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति
अद्य चाप्यस्य राष्ट्रस्य कृतोच्छेदस्य सञ्जय। अवशेषं न पश्यामि ककुदे मृदिते सति
कथं स्यादवशेषो हि धुर्ययोरभ्यतीतयोः। यौ नित्यमुपजीवामः क्षमिणौ पुरुषर्षभौ
व्यक्तमेव च मे शंस यथा युद्धमवर्तत। केऽयुध्यन्के व्यपाकुर्वन्के क्षुद्राः प्राद्रवन्भयात्
धनुञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः। तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात्
यथाऽसीच्च निवृत्तेषु पाण्डवेयेषु सञ्जय। मम सैन्यावशेषस्य सन्निपातः सुदारुणः
कथं च वो मनस्तात निवृत्तेष्वभवत्तदा। मामकानां च ये शूराः के कांस्तत्र न्यवारयन्
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्। मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वाऽनदद्भृशम्
तस्य नानदतः केतुमुच्चकर्त च कार्मुकम्। क्षुराभ्यां पाण्डवो ज्येष्ठस्तत उच्चुक्रुशुर्जनाः
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः। आद्रवन्तं सहानीकः सहानीकं न्यवारयत्
तद्युद्धमभवद्धोरं वृद्धयोः सहसेनयोः। यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्। सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम्
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम्। मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम्
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः। अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत्
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः। चक्रे विबाहुशिरसं भूतकर्माणमाहवे
सुतसोमं तु विक्रान्तमायान्तं तं शरौघिणम्। द्रोणायाभिमुखं वीरं साल्वो बाणैरवारयत्
स तु भीमरथः साल्वमाशुगैरायसैः शितैः। षड्भिः साश्वनियन्तारमनयद्यमसादनम्
श्रुतकीर्तिं समायान्तं मयूरसदृशैर्हयैः। चित्रसेनो महाराज तव पौत्रं न्यवारयत्
तमार्जुनिः शरैश्चक्रे पितृव्यं जर्झरच्छविम्। शरैश्च द्रौपदीपुत्रं चित्रसेनः समावृणोत्
किरन्तं शरजालानि प्रभिन्नमिव कुञ्जरम्। श्रुतकर्माणमायान्तं दौश्शासनिरवारयत्
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ। पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम्
तिष्ठन्तमग्रे तं दृष्ट्वा प्रतिविन्ध्यं महाहवे। द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत्
तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः। सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम्
प्रवपन्निव बीजानि बीजकाले कृषीवलः। द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत्
यस्तु शूरतमो राजन्नुभयोः सेनयोर्मतः। तं पटच्चरहन्तारं लक्ष्मणः समवारयत्