ततो युधिष्ठिरः क्षिप्रं गुरुतो राजसत्तमः। अपायाञ्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात्
तं द्रोणः सधनुष्कं तु साश्वयन्तारमाक्षिणोत्। स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात्। `हत्वा तं विबभौ द्रोणः कुरुभिः परिवारितः
वार्धक्षेमिस्तु वार्ष्णेयो द्रोणं विद्ध्वा शरोत्तमैः। नवभिश्च महीपालः पुनर्विव्याध पञ्चभिः
स सात्यकिश्चतुष्षष्ट्या राजन्विव्याध सायकैः। सुचित्रो दशभिर्बाणैर्द्रोणं विद्व्वाऽनदद्बली
तं द्रोणः समरे राजञ्शरवर्षैरवाकिरत्। अपातयत्तयो द्रोणः सुचित्रं सहसारथिम्
साश्वं च समरे राजन्हतो वै प्रापतत्क्षितौ। पात्यमानो महाराज बभौ ज्योतिरिवाम्बरात्
तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे। हत द्रोणं हत द्रोणमित्यासीन्निःस्वनो महान्
तांस्तथा भृशसंरब्धान्पाञ्चालान्मत्स्यकेकयान्। सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली
सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ। वार्धक्षेमिं चैत्रसेनिं सेनाबिन्दुं सुवर्चसम्
एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान्। सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः
तावकाश्च महाराज जयं लब्ध्वा महाहवे। पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः
ते दानवा इवेन्द्रेण वध्यमाना महात्मना। पाञ्चालाः केकया मात्स्याः समकम्पन्त भारत
समनुप्राप्तकृच्छ्रोऽहं मोहं परममागतः। भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे
यन्मां क्षत्ताऽब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम्। दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह
नृशंसं तु परं तात त्यक्त्वा दुर्योधनं यदि। पुत्रशेषं चिकीर्षेयं कृत्स्नं न मरणं व्रजेत्
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः। सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति
अद्य चाप्यस्य राष्ट्रस्य कृतोच्छेदस्य सञ्जय। अवशेषं न पश्यामि ककुदे मृदिते सति
कथं स्यादवशेषो हि धुर्ययोरभ्यतीतयोः। यौ नित्यमुपजीवामः क्षमिणौ पुरुषर्षभौ
व्यक्तमेव च मे शंस यथा युद्धमवर्तत। केऽयुध्यन्के व्यपाकुर्वन्के क्षुद्राः प्राद्रवन्भयात्
धनुञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः। तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात्
यथाऽसीच्च निवृत्तेषु पाण्डवेयेषु सञ्जय। मम सैन्यावशेषस्य सन्निपातः सुदारुणः
कथं च वो मनस्तात निवृत्तेष्वभवत्तदा। मामकानां च ये शूराः के कांस्तत्र न्यवारयन्
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्। मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वाऽनदद्भृशम्
तस्य नानदतः केतुमुच्चकर्त च कार्मुकम्। क्षुराभ्यां पाण्डवो ज्येष्ठस्तत उच्चुक्रुशुर्जनाः
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः। आद्रवन्तं सहानीकः सहानीकं न्यवारयत्
तद्युद्धमभवद्धोरं वृद्धयोः सहसेनयोः। यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्। सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम्
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम्। मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम्
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः। अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत्
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः। चक्रे विबाहुशिरसं भूतकर्माणमाहवे