तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च। अब्रवीच्चैनमासीनं राजसंसदि भारत
राज्यशुल्का प्रदातव्या कन्येयं याचतां वर। अपत्यं यद्भवेदस्याः स राजाऽस्तु पितुः परम्
त्वमेवात्र महाबाहो शान्तनोर्वंशवर्धनः। पुत्रः शस्त्रभृतां श्रेष्ठः किं नु वक्ष्यामि ते वचः
कुमारिकायाः शुल्कार्थं किंचिद्वक्ष्यामि भारत।' कोहि संबन्धखं श्लाघ्यमीप्सितं यौनमीदृशम्। अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः। यस्य शुक्रात्सत्यवती संभूता वरवर्णिनी
तेन मे बहुशस्तात पिता ते परिकीर्तितः। अर्हः सत्यवतीं वोढुं धर्मज्ञः स नराधिपः
इयं सत्यवती देवी पितरं तेऽब्रवीत्तथा। अर्थितश्चापिराजर्षिः प्रत्याख्यातः पुरा मया
कन्यापितृत्वात्किंचित्तु वक्ष्यामि त्वां नराधिप। बलवत्सपत्नतामत्र दोषं पश्यामि केवलम्
भूयांसं त्वयि पश्यामि तद्दोषमपराजित।' यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा
न स जातु चिरं जीवेत्त्वयि क्रुद्धे परन्तप। एतावानत्र दोषो हि नान्यः कश्चन पार्थिव
एतज्जानीहि भद्रं ते दानादाने परन्तप
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत। शृण्वतां भूमिपालानां पितुरर्थाय भारत
इदं वचनमाधत्स्व नास्ति वक्तास्य मत्समः। अन्यो जातो न जनिता न च कश्चन संप्रति
एवमेतत्करिष्यामि यथा त्वमनुभाषसे। योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति
इत्युक्तः पुनरेव स्म तं दाशः प्रत्यभाषत। चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ
त्वमेव नाथः संप्राप्तः शान्तनोरमितद्युते। कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः
इदं तु वचनं सौम्य कार्यं चैव निबोध मे। कौमारिकाणां शीलेन वक्ष्याम्यहमरिन्दम
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण। राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत्
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन। तवापत्यं भवेद्यत्तु तत्र नः संशयो महान्
तस्यैतन्मतमाज्ञाय सत्यधर्मपरायणः। प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया
उच्चैश्श्रवः समाधत्स्व प्रतिज्ञां जनसंसदि। ऋषयो वाथ वा देवा भूतान्यन्तर्हितानि च
यानि यानीह शृण्वन्तु नास्ति वक्तास्य मत्समः।' दाशराज निबोधेदं वचनं मे नृपोत्तम
शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते। राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिपाः
अपत्यहेतोरपि च करिष्येऽद्य विनिश्चयम्। अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि। `न हि जन्मप्रभृत्युक्तं मया किंचिदिहानृतम्
यावत्प्राणा ध्रियन्ते वै मम देहं समाश्रिताः। तावन्न जनयिष्यामि पित्रे कन्यां प्रयच्छ मे
परित्यजाम्यहं राज्यं मैथुनं चापि सर्वशः। ऊर्ध्वरेता भविष्यामि दाश सत्यं ब्रवीमि ते
तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः। ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत
ततोन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तदा। `तद्दृष्टा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन्। ततः स पितुरर्थाय तामुवाच यशस्विनीम्