तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम्। क्षुरेणापाहरत्तुर्णं ततो मत्स्याः प्रदुद्रुवुः
मत्स्याञ्जित्वाऽजयच्चेदीन्करूशान्केकयानपि। पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनःपुनः
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम्। दृष्ट्वा रुक्मरथं वीरं समकम्पन्त सृञ्जयाः
उभाभ्यां सन्दधानस्य धनुरस्याशुकारिणः। ज्याघोषो निघ्नतोऽमित्रान्दिक्षुसर्वासु शुश्रुवे
नागानश्वान्पदातींश्च रथिनो गजसादिनः। रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये। अश्मवर्षमिवावर्षन्परेषां भयमादधत्
सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव। बली शूरो महेष्वासो मित्राणामभयङ्करः
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्। दिक्षु सर्वासु पश्यामो द्रोणस्यामिततेजसः
शोभमानां ध्वजे चास्य वेदीमद्राक्ष्य भारत। हिमवच्छिखराकारं चरतः संयुगे भृशम्
द्रोणस्तु पाण्डवानीके चकार कदनं महत्। यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः
स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः। महानुभावः कल्पान्ते रौद्रां भीरुविभीषणाम्
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम्।। गजवाजिमहाग्राहामसिमीनां दुरासदाम्
वीरास्यिशर्करां रौद्रां भेरीमुरजकच्छपाम्। चर्मवर्मप्लवां घोरां केशशैवलशाद्वलाम्
शरौघिणीं धनुःस्रोतां बाहुपन्नगसङ्कुलाम्। रणभूमिवहां तीव्रां कुरुसृञ्जयवाहिनीम्
मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम्। उष्णीषफेनवसनां विकीर्णान्त्रसरीसृपाम्
वीरापहारिणीमुग्रां मांसशोमितकर्दमाम्। हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम्
क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम्। द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम्
क्रव्यादगणसञ्जुष्टां श्वशृगालगणायुताम्। निषेवितां महारौद्रैः पिशिताशैः समन्ततः
तं दहन्तमनीकानि रथोदारं कृतान्तवत्। सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः
ते द्रोणं सहिताः शूराः सर्वतः प्रत्यवारयन्। गभस्तिभिरिवादित्यं तपन्तं भुवनं यथा
तं तु शूरं महेष्वासं तावकाऽभ्युद्यतायुधाः। राजानो राजपुत्राश्च समन्तात्पर्यवारयन्
शिखण्डी तु ततो द्रोणं पञ्चभिर्नतपर्वभिः। क्षत्रवर्मा च विंशत्या वसुदानश्च पञ्चभिः
उत्तमौजास्त्रिभिर्बाणैः क्षत्रदेवश्च सप्तभिः। सात्यकिश्च शतेनाजौ युधामन्युस्तथाऽष्टभिः
युधिष्ठिरो द्वादशभिर्द्रोणं विव्याध सायकैः। धृष्टद्युम्नश्च दशभिश्चेकितानस्त्रिभिः शरैः
ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः। अभ्यतीत्य स्थानीकं दृढसेनमपातयत्
ततो राजानमासाद्य प्रहरन्तमभीतवत्। अविध्यन्नवभिः क्षेमं स हतःप्रापतद्रथात्
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः। त्राता ह्यभवदन्येषां न त्रातव्यः कथंचन
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्। वसुदानं च भल्लेन प्रैषयद्यमसादनम्
अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम्। क्षत्रदेवं तु भल्लेन रथनीडाडपातयत्
युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम्। विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत्