हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः। संक्षुण्णाः पुनरावृत्य बहुधा रथनेमिभिः
सगजौघमहावेगः परासुनरशैवलः। रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः
तं वाहनमहानौभिर्योधा जयधनैषिणः। अवगाह्याथ मज्जन्तो नैव मोहं प्रचक्रिरे
शरवर्षाभिवृष्टेषु योधेष्वञ्चितलक्ष्मसु। न तेष्वचित्ततां लेभे कश्चिदाहतलक्षणः
वर्तमाने तथा युद्धे घोररूपे भयङ्करे। मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत्
पाञ्चालाः केकया मात्स्याश्चेदिकारूशकोसलाः। युधिष्ठिरमभीप्सन्तो दृष्ट्वा द्रोणमुपाद्रवन्
ततो युधिष्ठिरं प्रेप्सुराचार्यः शत्रुपूगहा। व्यधमत्तान्यनीकानि तूलराशिमिवानलः
निर्दहन्तमनीकानि तानि तानि पुनःपुनः। द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः। षड्भिः ससूतं सहयं द्रोणं विद्ध्वाऽनदद्भृशम्
क्रूराय कर्मणे युक्तश्चिकीर्षुः कर्म दुष्करम्। अवाकिरच्छरशतैर्भारद्वाजं महारथम्
तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम्। क्षुरेणापाहरत्तुर्णं ततो मत्स्याः प्रदुद्रुवुः
मत्स्याञ्जित्वाऽजयच्चेदीन्करूशान्केकयानपि। पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनःपुनः
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम्। दृष्ट्वा रुक्मरथं वीरं समकम्पन्त सृञ्जयाः
उभाभ्यां सन्दधानस्य धनुरस्याशुकारिणः। ज्याघोषो निघ्नतोऽमित्रान्दिक्षुसर्वासु शुश्रुवे
नागानश्वान्पदातींश्च रथिनो गजसादिनः। रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये। अश्मवर्षमिवावर्षन्परेषां भयमादधत्
सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव। बली शूरो महेष्वासो मित्राणामभयङ्करः
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्। दिक्षु सर्वासु पश्यामो द्रोणस्यामिततेजसः
शोभमानां ध्वजे चास्य वेदीमद्राक्ष्य भारत। हिमवच्छिखराकारं चरतः संयुगे भृशम्
द्रोणस्तु पाण्डवानीके चकार कदनं महत्। यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः
स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः। महानुभावः कल्पान्ते रौद्रां भीरुविभीषणाम्
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम्।। गजवाजिमहाग्राहामसिमीनां दुरासदाम्
वीरास्यिशर्करां रौद्रां भेरीमुरजकच्छपाम्। चर्मवर्मप्लवां घोरां केशशैवलशाद्वलाम्
शरौघिणीं धनुःस्रोतां बाहुपन्नगसङ्कुलाम्। रणभूमिवहां तीव्रां कुरुसृञ्जयवाहिनीम्
मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम्। उष्णीषफेनवसनां विकीर्णान्त्रसरीसृपाम्
वीरापहारिणीमुग्रां मांसशोमितकर्दमाम्। हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम्
क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम्। द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम्
क्रव्यादगणसञ्जुष्टां श्वशृगालगणायुताम्। निषेवितां महारौद्रैः पिशिताशैः समन्ततः
तं दहन्तमनीकानि रथोदारं कृतान्तवत्। सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः
ते द्रोणं सहिताः शूराः सर्वतः प्रत्यवारयन्। गभस्तिभिरिवादित्यं तपन्तं भुवनं यथा