विप्रकीर्णपताकास्ते विषाणजनिताग्नयः। बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः
विक्षिपद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः। सम्बभूव मही कीर्णा मेघैर्द्यौरिव वार्षिकी
तेषामाहन्यमानानां बाणतोमरऋष्टिभिः। वारणानां रवो जज्ञे मेघानामिव सम्पुवे
तोमराभिहताः केचिद्बाणैश्च परमद्विपाः। वित्रेसुः सर्वनागानां शब्दमेवापरेऽसृजन्
विषाणाभिहताश्चापि केचित्तत्र गजा गजैः। चक्रुरार्तस्वनं घोरमुत्पातजलदा इव
प्रतीपाः क्रियमाणाश्च वारणा वरवारणैः। उन्मथ्य पुनराजग्मुः प्रेरिताः परमाङ्कुशैः
महामात्रैर्महामात्रास्ताडिताः शरतोमरैः। गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः। छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम्
हतान्परिवहन्तश्च पतितान्पतितायुधान्। दिशो जग्मुर्महानागाः केचिदेकचरा इव
ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वथैः। पेतुरार्तस्वनं कृत्वा तदा विशसने गजाः
तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः। आहता सहसा भूमिश्चकम्पे च ननाद च
सादितैः सगजारोहैः सपताकैः समन्ततः। मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः
गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे। रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः
क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः। परान्स्वांश्चापि मृद्गन्तः परिपेतुर्दिशो दश
गजाश्वरथयोधानां शरीरौघसमावृता। बभूव पृथिवी राजन्मांसशोणितकर्दमा
प्रमथ्य च विषाणाग्रैः समुत्क्षिप्ताश्च वारणैः। सचक्राश्च विचक्राश्च रथैरेव महारथाः
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः। हतारोहाश्च मातङ्गा दिशो जग्मुर्भयातुराः
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा। इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन
आगुल्फेभ्योऽवसीदन्ते नरा लोहितकर्दमैः। दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः
शोणितैः सिच्यमानानि वस्त्राणि कवचानि च। छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत
हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः। संक्षुण्णाः पुनरावृत्य बहुधा रथनेमिभिः
सगजौघमहावेगः परासुनरशैवलः। रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः
तं वाहनमहानौभिर्योधा जयधनैषिणः। अवगाह्याथ मज्जन्तो नैव मोहं प्रचक्रिरे
शरवर्षाभिवृष्टेषु योधेष्वञ्चितलक्ष्मसु। न तेष्वचित्ततां लेभे कश्चिदाहतलक्षणः
वर्तमाने तथा युद्धे घोररूपे भयङ्करे। मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत्
पाञ्चालाः केकया मात्स्याश्चेदिकारूशकोसलाः। युधिष्ठिरमभीप्सन्तो दृष्ट्वा द्रोणमुपाद्रवन्
ततो युधिष्ठिरं प्रेप्सुराचार्यः शत्रुपूगहा। व्यधमत्तान्यनीकानि तूलराशिमिवानलः
निर्दहन्तमनीकानि तानि तानि पुनःपुनः। द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः। षड्भिः ससूतं सहयं द्रोणं विद्ध्वाऽनदद्भृशम्
क्रूराय कर्मणे युक्तश्चिकीर्षुः कर्म दुष्करम्। अवाकिरच्छरशतैर्भारद्वाजं महारथम्