द्रोणावारितं दृष्ट्वा भृशायस्तस्तवात्मजः। नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत्
तयोर्विषक्तयोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः। द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः। तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित्
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम्। तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत
नैव खं न दिशो भूमिर्बभासे न च भास्करः'। नैव स्वे न परे राजन्नाज्ञायन्त परस्परम्। अनुमानेन संज्ञाभिर्युद्धं तत्समवर्तत
चूडामणिषु निष्केषु भूषणेष्वपि वर्मसु। तेषामादित्यवर्णाभा रश्मयः प्रचकाशिरे
तत्प्रकीर्णपताकानां रथवारणवाजिनाम्। बलाकाशबलाभ्रामं ददृशे रूपमाहवे
नरानेव नरा जघ्नरुदग्राश्च हया हयान्। रथांश्च रथिनो जघ्नुर्वारणा वरवारणान्
समुच्छ्रितपताकानां गजानां परमद्विपैः। क्षणेन तुमुलो घोरः सङ्ग्रामः समपद्यत
तेषां संसक्तगात्राणां कर्षतामितरेतरम्। दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत
विप्रकीर्णपताकास्ते विषाणजनिताग्नयः। बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः
विक्षिपद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः। सम्बभूव मही कीर्णा मेघैर्द्यौरिव वार्षिकी
तेषामाहन्यमानानां बाणतोमरऋष्टिभिः। वारणानां रवो जज्ञे मेघानामिव सम्पुवे
तोमराभिहताः केचिद्बाणैश्च परमद्विपाः। वित्रेसुः सर्वनागानां शब्दमेवापरेऽसृजन्
विषाणाभिहताश्चापि केचित्तत्र गजा गजैः। चक्रुरार्तस्वनं घोरमुत्पातजलदा इव
प्रतीपाः क्रियमाणाश्च वारणा वरवारणैः। उन्मथ्य पुनराजग्मुः प्रेरिताः परमाङ्कुशैः
महामात्रैर्महामात्रास्ताडिताः शरतोमरैः। गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः। छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम्
हतान्परिवहन्तश्च पतितान्पतितायुधान्। दिशो जग्मुर्महानागाः केचिदेकचरा इव
ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वथैः। पेतुरार्तस्वनं कृत्वा तदा विशसने गजाः
तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः। आहता सहसा भूमिश्चकम्पे च ननाद च
सादितैः सगजारोहैः सपताकैः समन्ततः। मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः
गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे। रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः
क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः। परान्स्वांश्चापि मृद्गन्तः परिपेतुर्दिशो दश
गजाश्वरथयोधानां शरीरौघसमावृता। बभूव पृथिवी राजन्मांसशोणितकर्दमा
प्रमथ्य च विषाणाग्रैः समुत्क्षिप्ताश्च वारणैः। सचक्राश्च विचक्राश्च रथैरेव महारथाः
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः। हतारोहाश्च मातङ्गा दिशो जग्मुर्भयातुराः
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा। इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन
आगुल्फेभ्योऽवसीदन्ते नरा लोहितकर्दमैः। दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः
शोणितैः सिच्यमानानि वस्त्राणि कवचानि च। छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत