भूयिष्ठं प्रतिरुद्धा ये हतैर्योधैर्यशस्विनः'। व्यद्रवन्त भयाद्भीता यत्र दौर्योधनं बलम्
ततो जघानं सङ्क्रुद्धो वासविस्तां महाचमूम्। शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः
ततो भग्ने बले तस्मिन्विप्रलीने समन्ततः। सव्यसाचिनि सङ्क्रुद्वे त्रैगर्तान्भयमाविशत्
ते वध्यमानाः पार्थेन शरैः सन्नतपर्वभिः। अमुह्यंस्तत्रतत्रैव त्रस्ता मृगगणा इव
ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान्। अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ
शप्त्वाऽथ शपथान्घोरान्सर्वसैन्यस्य पश्यतः। गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यशः
नावहास्याः कथं लोके कर्मणाऽनेन संयुगे। भवेम सहिताः सर्वे निवर्तध्वं यथाबलम्
एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः। शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम्
ततस्ते सन्न्यवर्तन्तं संशप्तकगणाः पुनः। नारायणाश्च गोपाला मृत्युं कृत्वाऽनिवर्तनम्
सोत्तरायुधिनो नागाः सपताकाङ्कुशध्वजाः। पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः
चामरापीडकवचाः स्रस्तान्त्रनयनास्तथा। सारोहास्तुरगाः पेतुः पार्तबाणहताः क्षितौ
विप्रविद्धासिनाराचाश्छिन्नवर्मर्ष्टिशक्तयः। पत्तयश्चिन्नवर्माणः कृपणाः शेरते हताः
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि। भ्रमद्भिर्निष्टनद्भिश्च क्रूरमायोधनं बभौ
रजश्च चाप्यभवद्दुर्गा कबन्धशतसङ्कुला।। तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे
आक्रीडमिव रुद्रस्य घ्नतः कालात्यये पशून्।। कते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः।। सा भूमीर्भरतश्रेष्ठ निहतैस्तैर्महारथैः
आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः।। एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत्।। तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः
युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत्
ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो। पारावतसवर्णाश्व तथा नीतिर्विधीयताम्
द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत। अहमावारयिष्यामि द्रोणमद्य सहानुगम्
मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि। न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन
एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली। पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत्
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम्। क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव
स हि जातो महाराज द्रोणस्य निधनं प्रति
मर्त्यधर्मतया तस्माद्भारद्वाजो व्यमुह्यत। नाशकत्तत्र तत्किञ्चिदनीकं प्रतिवीक्षितुम्
ततः किरन्निषूंस्तीक्ष्णान्द्रुपदस्य वरूथिनीम्। भराद्वाजो ययौ तूर्णं पार्षतं वर्जयन्युधि। द्रुपदस्य महत्सैन्यं दारयामास ब्राह्मणः
तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्षणः। प्रियं चिकीर्षुर्द्रोणस्य धृष्टद्युम्नमवारयत्
स सम्प्रहारस्तुमुलः सुघोरः समपद्यत। पार्षतस्य च शूरस्य दुर्मुखस्य च भारत
पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम्। भारद्वाजं शरौघेण महता समवारयत्