तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्। भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ
पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनञ्जयः। द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षिताम्
भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन्। शल्यकर्णौ च तरसा जितवन्तौ महामृधे
दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम्। शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती
जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि। पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते। द्रौपद्या देवविहीतो विवाहश्चाप्यमानुषः
क्षत्तुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति। विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च
खाण्डवप्रस्थवासश्च तथा राज्यार्धसर्जनम्। नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया
सुन्दोपसुन्दयोस्तद्वदाख्यानं परिकीर्तितम्। अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम्
अनु प्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम्। मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः
समयं पालयन्वीरो वनं यत्र जगाम ह। पार्थस्य वनवासे च उलूप्या पथि सङ्गमः
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च। तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः
शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः। प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः
द्वारकायां सुभद्रा च कामयानेन कामिनी। वासुदेवस्यानुमते प्राप्ता चैव किरीटिना
गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने। अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः
द्रौपद्यास्तनयानां च संभवोऽनुप्रकीर्तितः। विहारार्थं च गतयोः कृष्णयोर्यमुनामनु
संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्। मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्
महर्षेर्मन्दपालस्य शार्ङ्ग्या तनयसंभवः। इत्येतदादिपर्वोक्तं प्रथमं बहु विस्तरम्
अध्यायानां शते द्वे तु संख्याते परमर्षिणा। सप्तविंशतिरध्याया व्यासेनोत्तमतेजसा
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। श्लोकाश्च चतुराशीतिर्मुनिनोक्ता महात्मना
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते। सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम्
लोकपालसभाख्यानं नारदाद्देवदर्शिनः। राजसूयस्य चारम्भो जरासन्धवधस्तथा
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्। तथा दिग्विजयोऽत्रैव पाम्डवानां प्रकीर्तितः
राज्ञामागमनं चैव सार्हणानां महक्रतौ। राजसूयेऽर्घसंवादे शिशुपालवधस्तथा
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च। दुर्योधनस्यावहासो भीमेन च सभातले
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्। यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्
यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात्। धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम्
तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः। पुनरेव ततो द्यूते समाह्वयत पाण्डवान्
जित्वा स वनवासाय प्रेषयामास तांस्ततः। एतत्सर्वं सभापर्व समाख्यातं महात्मना
अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया। श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च