ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः। शरणागतं च त्यजतो याचमानं तथा घ्नतः
अगारदाहिनां चैव ये च गां निघ्नतामपि। अपकारिणां च ये लोका ये च ब्रह्मद्विषामपि
स्वभार्यामृतुकालेषु मोहाद्वै नाभिगच्छताम्। श्राद्धमैथुनिकानां च ये चाप्यात्मापहारिणाम्
न्यासापहारिणां ये च श्रुतं नाशयतां च ये। क्लीबने युध्यमानानां ये च नीचानुसारिणाम्
नास्तिकानां च ये लोका येऽग्निमातृपितृत्यजाम्। तानाप्नुयामहे लोकान्ये च पापकृतामपि
यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम्। तेन चाभ्यर्दितास्त्रासाद्भवेमहि पराङ्मुखाः
यदि त्वसुकरं लोके कर्म कुर्याम संयुगे। इष्टाँल्लोकान्प्राप्नुयामो वयमद्य न संशयः
एवमुक्त्वा तदा राजंस्तेऽभ्यवर्तन्त संयुगे। आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्चयः। धर्मराजमिदं वाक्यमपदान्तरमब्रवीत्
आहूतो न निवर्तेयमिति मे व्रतमाहितम्। संशप्तकाश्च मां राजन्नाह्वयन्ति महामृधे
एष च भ्रातृभिः सार्धं सुशर्माऽऽह्वयते रणे। वधाय सगणस्यास्य मामनुज्ञातुमर्हसि
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ। सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि
श्रुतं ते तत्त्वतस्तात यद्द्रोणस्य चिकीर्षितम्। यथा तदनृतं तस्य भवेतत्त्वं समाचर
द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः। प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ
अयं वै सत्यजिद्राजन्नद्य त्वां रक्षिता युधि। ध्रियमाणे च पाञ्चाल्ये नाचार्यः काममाप्स्यति
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो। सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन
अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः। प्रेम्णा दृष्टश्च बहुधा ह्याशिषश्चास्य योजिताः
विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली। क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव
ततो दौर्योधनं सैन्यं मुदा परमया युतम्। ऋतेऽर्जुनं भृशं क्रुद्धं धर्मराजस्य निग्रहे
ततोऽन्योन्येन ते सैन्ये समाजग्मतुरोजसा। गङ्गासरय्वौ वेगेन प्रावृषीवोल्बणोदके
भूयिष्ठं प्रतिरुद्धा ये हतैर्योधैर्यशस्विनः'। व्यद्रवन्त भयाद्भीता यत्र दौर्योधनं बलम्
ततो जघानं सङ्क्रुद्धो वासविस्तां महाचमूम्। शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः
ततो भग्ने बले तस्मिन्विप्रलीने समन्ततः। सव्यसाचिनि सङ्क्रुद्वे त्रैगर्तान्भयमाविशत्
ते वध्यमानाः पार्थेन शरैः सन्नतपर्वभिः। अमुह्यंस्तत्रतत्रैव त्रस्ता मृगगणा इव
ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान्। अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ
शप्त्वाऽथ शपथान्घोरान्सर्वसैन्यस्य पश्यतः। गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यशः
नावहास्याः कथं लोके कर्मणाऽनेन संयुगे। भवेम सहिताः सर्वे निवर्तध्वं यथाबलम्
एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः। शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम्
ततस्ते सन्न्यवर्तन्तं संशप्तकगणाः पुनः। नारायणाश्च गोपाला मृत्युं कृत्वाऽनिवर्तनम्
सोत्तरायुधिनो नागाः सपताकाङ्कुशध्वजाः। पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः