पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः। एं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनञ्जयः
पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः।। मसारगल्वर्कमुवर्णरूपैर्वज्रप्रवालस्फटिकैश्च मुख्यैः
चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः। योक्ष्यमाणास्तदाऽऽत्मानं यशसा विजयेन च
ब्रह्मचर्युश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः। प्राप्याँल्लोकान्सुयुद्धेन क्षिप्रमेव यियासवः
ब्राह्ममांस्तर्पयित्वा च निष्कान्दत्वा पृथक्पृथक्। गाश्च वासांसि च पुनः समाभाष्य परस्परम्
द्विजमुख्यैः समुदितैः कृतस्वस्त्ययनाशिषः। मुदिताश्च प्रहृष्टाश्च जलं संस्पृश्य निर्मलम्
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणव्रतम्। तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः
शृण्वतां सर्वभूतानामुच्चैर्वाचो बभाषिरे। सर्वे धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे
ये वै लोकाश्चाव्रतिनां ये चैव ब्रह्मघातिनाम्। मद्यपस्य च ये लोका गुरुदाररतस्य च
ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः। शरणागतं च त्यजतो याचमानं तथा घ्नतः
अगारदाहिनां चैव ये च गां निघ्नतामपि। अपकारिणां च ये लोका ये च ब्रह्मद्विषामपि
स्वभार्यामृतुकालेषु मोहाद्वै नाभिगच्छताम्। श्राद्धमैथुनिकानां च ये चाप्यात्मापहारिणाम्
न्यासापहारिणां ये च श्रुतं नाशयतां च ये। क्लीबने युध्यमानानां ये च नीचानुसारिणाम्
नास्तिकानां च ये लोका येऽग्निमातृपितृत्यजाम्। तानाप्नुयामहे लोकान्ये च पापकृतामपि
यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम्। तेन चाभ्यर्दितास्त्रासाद्भवेमहि पराङ्मुखाः
यदि त्वसुकरं लोके कर्म कुर्याम संयुगे। इष्टाँल्लोकान्प्राप्नुयामो वयमद्य न संशयः
एवमुक्त्वा तदा राजंस्तेऽभ्यवर्तन्त संयुगे। आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्चयः। धर्मराजमिदं वाक्यमपदान्तरमब्रवीत्
आहूतो न निवर्तेयमिति मे व्रतमाहितम्। संशप्तकाश्च मां राजन्नाह्वयन्ति महामृधे
एष च भ्रातृभिः सार्धं सुशर्माऽऽह्वयते रणे। वधाय सगणस्यास्य मामनुज्ञातुमर्हसि
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ। सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि
श्रुतं ते तत्त्वतस्तात यद्द्रोणस्य चिकीर्षितम्। यथा तदनृतं तस्य भवेतत्त्वं समाचर
द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः। प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ
अयं वै सत्यजिद्राजन्नद्य त्वां रक्षिता युधि। ध्रियमाणे च पाञ्चाल्ये नाचार्यः काममाप्स्यति
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो। सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन
अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः। प्रेम्णा दृष्टश्च बहुधा ह्याशिषश्चास्य योजिताः
विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली। क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव
ततो दौर्योधनं सैन्यं मुदा परमया युतम्। ऋतेऽर्जुनं भृशं क्रुद्धं धर्मराजस्य निग्रहे
ततोऽन्योन्येन ते सैन्ये समाजग्मतुरोजसा। गङ्गासरय्वौ वेगेन प्रावृषीवोल्बणोदके