कुमारस्तु ततो द्रोणं सायकेन महाहवे। विव्याधोरसि सङ्क्रुद्धः सिंहवच्च नदन्मुहुः
संवार्य च रणे द्रोणं कुमारस्तु महाबलः। शरैरनेकसाहस्रैः कृतहस्तो जितश्रमः
तं शूरमार्यव्रतिनं मन्त्रास्त्रेषु कृतश्चमम्। चक्ररक्षतं परामृद्रात्कुमारं द्विजपुङ्गवः
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः। तव सैन्यस्य गोप्तासीद्भारद्वाजो द्विजर्षभः
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्। नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः
युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः। सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः
व्यक्षोभयद्रणे योधान्यथामुख्यमभिद्रवन्। अभ्यवर्ततं सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्
युगन्धरस्ततो राजन्भारद्वाजं महारथम्। वारयामास सङ्क्रुद्वं वातोद्धतमिवार्णवम्
युधिष्ठिरं स विद्ध्वा तु शरैः सन्नतपर्वभिः। युगन्धरं तु भल्लने रथनीडादपातयत्
तं विजित्य महातेजा भारद्वाजो महामनाः। अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्
ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः। व्याघ्रदत्तश्च पाञ्चल्यः सिंहसेनश्च वीर्यवान्
एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम्। आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून्
व्याघ्रदत्तस्तु पाञ्चाल्यो द्रोणं विव्याध मार्गणैः। पञ्चाशता शितै राजंस्तत उच्चुक्रुशुर्जनाः
त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम्। प्राहसत्सहसा हृष्टस्त्रासयन्वै महारथान्
ततो विष्फार्य नयने धनुर्ज्यामवमृज्य च। तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत्
ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम्। व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामाहरद्बली
तान्प्रमृज्य शरव्रातैः पाण्डवानां महारथान्। युधिष्ठिररथाभ्याशे तस्थौ मृत्युरिवान्तकः
ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले। हृतो राजेति योधानां समीपस्थे यतव्रते
अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम्। अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति
अस्मिन्महूर्ते द्रोणस्तु पाण्डवं गृह्य हर्षितः। आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे
एवं सञ्जल्पतां तेषां तावकानां महारथः। आयाज्जवेन कौन्तेयो रथघोषेण नादयन्
शोणितोदां रथावर्तां कृत्वा विशसने नदीम्। शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम्
तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम्। नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः
ततः किरीटि सहसा द्रोणानीकमुपाद्रवत्। छादयन्निषुजालेन महता मोहयन्निव
शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम्। नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः
न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी। अदृश्यन्त महाराज बाणभूता इवाभवन्
नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे। बाणान्धकारे महति कृते गाण्डीवधन्वना
सूर्ये चास्तमनुप्राप्ते तमसा चाभिसंवृते। नाज्ञायत तदा शत्रुर्न सुहृन्न च कश्चन
ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः। तान्विदित्वा पुनस्त्रस्ता न युद्धमनसः परान्
स्वान्यनीकानि बीभत्सुः शनकैरवहारयत्। ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः