तेषां ददृशिरे कोपाद्वपूम्ष्यमिततेजसाम्। युयुत्सूनामिवाकाशे पतत्त्रिवरभोगिनाम्
भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः। बभासे स रणोद्देशः कालसूर्यैरिवोदितैः
प्रजानां संक्षये घोरे यथा सूर्योदयो भवेत्। शूराणामुदयस्तद्वदासीत्पुरुषसत्तम
तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम्। महाबलानां बलिभिर्दानवानां यथा सुरैः
ततो युधिष्ठिरानीकमुद्धूतार्णवनिःस्वनम्। त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम्
तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम्। अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत
भारद्वाजममर्षश्च विक्रमश्च समाविशत्। समुद्धृत्य निषङ्गाच्च धनुर्ज्यामवमृज्य च। महाशरधनुष्पाणिर्यन्तारमिदमब्रवीत्
सारथे याहि यत्रैष पाण्डरेण विराजता। ध्रियमाणेन च्छेण राजा तिष्ठति धर्मराट्
तदेतद्दीर्यते सैन्यं धार्तराष्ट्रमनेकधा। एतत्संस्तम्भयिष्यामि प्रतिवार्य युधिष्ठिरम्
न हि मामभिवर्षन्तं संयुगे तात पाण्डवाः। मात्स्यपाञ्चालराजानः सर्वे च सहसोमकाः
अर्जुनो मत्प्रसादाद्धि महास्त्राणि समाप्तवान्। न मामुत्सहते तात न भीमो न च सात्यकिः
मत्प्रसादाद्धि बीभत्सुः परमेष्वासतां गतः। ममैवास्त्रं विजानाति धृष्टद्युम्नोऽपि पार्षतः
नायं संरक्षितुं कालः प्राणांस्तात जयैषिणा। याहि सर्गं पुरस्कृत्य यशसे च जयाय च
एवं सञ्चोदितो यन्ता द्रोणमभ्यवहत्ततः
तदाऽश्वहृदयेनाश्वानभिमन्त्र्याशु हर्षयन्। रथेन सवरूथेन भास्वरेण विराजता
तं करूशाश्च मात्स्याश्च चेदयश्च ससात्वताः। पाण्डवाश्च सपाञ्चालाः सहिताः पर्यवारयन्
ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः। प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत्
तमाविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः। तस्य द्रोणो धनुश्छित्वा तं द्रुतं समुपाद्रवत्
चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः। दधार द्रोणमायान्तं वेलेव सरितां पतिम्
द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम्। सिंहनादरवो ह्यासीत्साधुसाध्विति भाषितम्
कुमारस्तु ततो द्रोणं सायकेन महाहवे। विव्याधोरसि सङ्क्रुद्धः सिंहवच्च नदन्मुहुः
संवार्य च रणे द्रोणं कुमारस्तु महाबलः। शरैरनेकसाहस्रैः कृतहस्तो जितश्रमः
तं शूरमार्यव्रतिनं मन्त्रास्त्रेषु कृतश्चमम्। चक्ररक्षतं परामृद्रात्कुमारं द्विजपुङ्गवः
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः। तव सैन्यस्य गोप्तासीद्भारद्वाजो द्विजर्षभः
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्। नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः
युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः। सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः
व्यक्षोभयद्रणे योधान्यथामुख्यमभिद्रवन्। अभ्यवर्ततं सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्
युगन्धरस्ततो राजन्भारद्वाजं महारथम्। वारयामास सङ्क्रुद्वं वातोद्धतमिवार्णवम्
युधिष्ठिरं स विद्ध्वा तु शरैः सन्नतपर्वभिः। युगन्धरं तु भल्लने रथनीडादपातयत्
तं विजित्य महातेजा भारद्वाजो महामनाः। अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्