ततस्तामेव शल्यस्य सौभद्रः परवीरहा। मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम्
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा। जघान सूतं शल्यस्य रथाच्चैनमपातयत्
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः। सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ
यमौ च द्रौपदेयाश्च साधुसाध्विति चुक्रुशुः। बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः
प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम्। तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम्
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः। अभ्याकिरन्महाराज जलदा इव पर्वतम्
तेषां च प्रियमन्विच्छन्सूतस्य च पराभवम्। आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात्
तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान्। दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया
शरा दश दिशो मुक्ता वृषसेनेन संयुगे। विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान्
तस्य दीप्ता महाबाणा विविश्चेरुः सहस्रशः। भानोरिव महाराज घर्मकाले मरीचयः
तेनार्दिता महाराज रथिनः सादिनस्तथा। निपेतुरुर्व्यां सहसा वातभग्ना इव द्रुमाः
हयौघांश्च रथौघांश्च गजौघांश्च महारथः। अपातयद्रणे राजञ्शतशोऽथ सहस्रशः
दृष्ट्वा तमेकं समरे विचरन्तमभीतवत्। सहिताः सर्वराजानः परिवव्रुः समन्ततः
नाकुलिस्तु शतानीको वृषसेनं समभ्ययात्। विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः
तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत्। तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः
कर्णात्मजं शरव्रातैरदृश्यं चक्रुरञ्जसा। तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः
छादयन्तो महाराज द्रौपदेयान्महारथान्। शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव
तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः। पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः
तद्युद्धमभवद्धोरं सुमहद्रोमहर्षणम्। त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः
एवं युयुधिरे वीराः संरब्धाः कुरुपाण्डवाः। परस्परमुदीक्षन्तः परस्परकृतागसः
तेषां ददृशिरे कोपाद्वपूम्ष्यमिततेजसाम्। युयुत्सूनामिवाकाशे पतत्त्रिवरभोगिनाम्
भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः। बभासे स रणोद्देशः कालसूर्यैरिवोदितैः
प्रजानां संक्षये घोरे यथा सूर्योदयो भवेत्। शूराणामुदयस्तद्वदासीत्पुरुषसत्तम
तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम्। महाबलानां बलिभिर्दानवानां यथा सुरैः
ततो युधिष्ठिरानीकमुद्धूतार्णवनिःस्वनम्। त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम्
तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम्। अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत
भारद्वाजममर्षश्च विक्रमश्च समाविशत्। समुद्धृत्य निषङ्गाच्च धनुर्ज्यामवमृज्य च। महाशरधनुष्पाणिर्यन्तारमिदमब्रवीत्
सारथे याहि यत्रैष पाण्डरेण विराजता। ध्रियमाणेन च्छेण राजा तिष्ठति धर्मराट्
तदेतद्दीर्यते सैन्यं धार्तराष्ट्रमनेकधा। एतत्संस्तम्भयिष्यामि प्रतिवार्य युधिष्ठिरम्
न हि मामभिवर्षन्तं संयुगे तात पाण्डवाः। मात्स्यपाञ्चालराजानः सर्वे च सहसोमकाः